________________
२३४
योगवार्तिकम् । रादाभावेन सिद्धान्तराकाङ्काविरहात् । पुरुषज्ञानस्यैव मुख्यतयोपस्थितत्वेन परामर्शाचित्याच्च । अतस्तच्छब्देनात्र पुरुषज्ञानस्यैव परामर्शः पुरुषसाता. त्काररूपपुरुषैकाग्रताप्रत्यनीकतया तु भाष्यकारः प्रतिभादेरसंप्रजातसमाधावेवोपसर्गत्वं वयतीति । प्रातिभादिशक्तीः स्वकार्येर्लक्षति भाष्यकारः। प्रातिभादिति। प्रतिभा उपदेशादिनरपेक्ष्येण सूत्मादीनां मानसं यथार्थज्ञानं तत्सामर्थ्य प्रातिभम एवं श्रावणापि व्याख्येयम् । वेदनायास्तु संज्ञास्त्व. कचतरसनघ्राणानां सामर्थ्यषु बोध्याः । नित्यमिति । कामनां विनापि जायन्तइत्यर्थः । समाधौ विघ्नरूपास्वेतासूपेक्षां कृत्वा पुरुषदर्शनाभ्यास एव कर्त्तव्य इत्येतत्यतिपादयितुमाह ।
ते समाधावुपसगी व्युत्थाने सिद्धयः ॥ ३६ ॥
ते प्रातिभादयः समाधिनिष्यत्तावसंग्रजातरूपायाम् उपसगी अन्त. राया अतो व्युत्थानापेतयैवैते सिद्धयः पुरुषार्था इत्यर्थः । भाष्ये तदा र्शनेति । तस्य समाहितस्य यदर्शनं पुरुषैकाय्यं तत्प्रतिबन्धकत्वादित्यर्थः। तदेवं ज्ञानादिरूपाः संयमसिद्धीः प्रदर्य क्रिपाविरूपा अपि विभूतीः संयम. फलान्याह सूत्रजातेन ।
बन्धकारणशैथिल्यात प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ ३७॥
बन्धशब्दार्थमाह । लोलीभूतस्येति । चञ्चलस्वभावस्यात एवाप्र. तिष्ठस्यैकत्रानस्थितस्यापि मनसो धर्माधर्मवशादेव शरीरे या प्रतिष्ठा ज्ञानहेतुः संबन्धविशेषः स बन्ध इत्यर्थः । संयमसिद्धित्वोपपादनायाह । तस्येति । तस्य कर्मणः शैथिल्यं भावनेन दृढबन्धनाक्षमता समाधिसा. मान्यबलाइवतीत्यर्थः । तथा च प्रागुक्तं कर्मबन्धनानि श्लथयतीति । प्रचाति । अनया नाया एवंप्रकारेण चित्तं शरीरे प्रविशति निर्गच्छति चेत्यादिविशेषैश्चित्ततिसाक्षात्कारः प्रचारसंवेदनम् । तदपि समाधिसा. मान्यादेव भवतीत्यर्थः । सूत्रवाक्यार्थमाह । कर्मेति । कर्मनिमित्तकस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org