________________
योगवार्तिकम्।
२३५ निर्गमप्रतिबन्धसंयोगवशेषस्य तयादित्यर्थः । शेषं सुगमम् । योगशास्त्रो. तसंयविशेषेणादानजयासिद्धिमाह । उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३८ ॥ ___उदानं विवेचयितुं प्राणादीन पञ्चैव स्वरूपतोऽवान्तरभेदतश्च प्र. तिपादयति । समस्तेति । जीवननाम्नी सर्वेन्द्रियाणां वृत्तिः प्राणनापाननादिरूपेत्यर्थः । अत्रेन्द्रियशब्देन स्यूलसूक्ष्मोभयपरतया करणमात्रग्रहणम् । समस्तशब्दोपि सामान्यवचनः सामान्यकरणत्तिः प्राणाया वायवः पञ्चेति सांख्य दर्शनात् । तेन सुषुप्ती चतुराग्रुपरमपि प्राणादिवृत्तयो जीवन. योनियनवशादन्तःकरणस्यैव भवन्ति निद्रातिदिति । न चैवं चित्तमात्रस्यैव लाघवात्प्राणादित्तिकत्वमस्त्विति वाच्यम् । चक्षुरादापचयापचयाभ्यां प्राणानामुपचयापचयदर्शनात् । अथ वा सुषुप्तेपीन्द्रियाणां जानकर्मलक्षणवृत्त्योरेव प्रतिषेधात् प्राणनादित्तिसत्त्वेप्यततिः । ननु बाह्मवायुभिर. न्तःप्राणानां समानलक्षणत्वात् वायुसंस्थानविशेषा एव प्राणाः सन्तु कि. मर्थ करणानापि वायुतुल्यः क्रियादिः कल्य्यतइति चेत्र। 'प्राणाच्छदां खं वायुरित्यादिश्रुतिषु वायोः प्राणकार्यत्वश्रवणात 'न वायुक्रिये पृथगुपदे. शादिति ब्रह्मसूत्रे वायुतत्संचाराभ्यामतिरेकस्य प्राणेवधारणाच्च । श्रुति. स्मृत्यनुगृहीता युक्तिश्चात्रास्ति यदि करणप्राणी भिन्ना स्यातां तदा करणवियोगेपि मृतदेहवत् कदा चित् प्राणा अपि तिष्ठेरन् । किं चान्तःकरणस्य शोकादिना प्राणस्य कम्पादिदृश्यते तत्र लाघवात्सामानाधिकरण्येनैव का. र्यकारणभावो युक्तो ऽन्यधर्मणान्यपरिणामेतिप्रसङ्गात् । अदृष्टकल्पनापते. श्च । अपि च लिङ्गशरीरस्य देहटङलया बन्ध एव कादीनां हेतुत्वं कल्प्यते न तु वायुबन्धनेपि, गौरवात् । उद्गारादिवायनां जीवदेहपरित्यागदर्शनाच्च वायुगतवैजात्यादिकल्पनायां चातिगौरवादिति लिङ्गशरीरस्योध्याधः संचारादुत्पदयमानेन वायुना सहाविवेकात्तु तप्तायःपिण्डवत्प्राणेषु वायुव्यव. हारः । अनेनैव व्यवहारेण सांख्येपि प्राणाया वायवः पञ्चेत्युक्तम् । अपि च श्रुतिस्मृत्योः करणप्राणयोः भेदत्र्यवहारो वृत्तिभेदादेव मन्तव्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org