________________
योगवार्तिकम् ।
उर्ध्वाधोगतिलक्षणाः करणानां परिणामभेदाः प्राणा इत्युच्यन्ते । तत्र च वायुरधिष्ठात्री देवता सूर्यश्चतुर्वातः प्राण इत्यादिश्रुतेः । ज्ञानादिहेतुपरिणामास्तु करणान्युच्यन्तइति विभागः । अतो देवतया सहाभेदादपि सू. र्यश्चतुरितिवत् वायुः प्राण इति व्यवहारो युक्त इति । कश्चित्तु अत्र प्राणादिजीवनशब्दाभ्यां प्राणनादिनामकत्रा युक्रिया विशेष हेतुः प्रयनभेद एवोक्तः स च करणनिष्ठ इति भाष्यार्थमाह । तत्र । विवरणभाष्ये प्राणादीनां गत्यादिवचनस्य विरोधात् अत्रापि सांख्यकारिका ब्रह्ममीमांसकवाक्यत्वाचित्यात् । वायोः प्राणत्वस्य क्वापि दर्शने सूत्रकारानुक्तत्वाच्च । श्रत एव च लिङ्गशरीरमध्ये प्राणा न गण्यन्ते करणे ऽप्रवेशादिति । तस्येति । तस्य करणसामान्यस्य साधारणी क्रिया पञ्चतयी क्रियोपलक्षितपरिणामभेद: पञ्चतय इत्यर्थः । समुन्नयनादिति । सममनुरूपं नाडीषु रसानां नयना - त्समानः । अस्य च हृदयाचाभिपर्यन्तं वृत्तिः । अपेति । मूत्रपुरीषगर्भ[दीनामपसरणहेतुरपानः । अस्यानाभेः पादतलपर्यन्तं वृत्तिः । उत्रयनादिति । ऊर्ध्वगतिप्रदत्वात् रसाद्व्यूर्ध्वनयनाच्च उदानः । अस्य च मुखनासिकादिकमारभ्य ब्रह्मरन्ध्रपर्यन्तं वृत्तिः । व्यापीति । सर्वदेहव्यापिवृत्तिको बलवत्कर्महेतुर्व्याानः । ननु सर्वेषां वृत्तिभेदात् कथं पञ्च प्राणा इत्युच्यन्ते तत्राह । एषामिति । प्राणो यदश्नाति पिबति तेनैवान्येषां धारणं भवतीति कृत्वैतेषां प्राणे। मुख्यः । अतो मुख्य स्य नामादिभिर्गेणानां व्यवहारो राजानुगतेषु राजव्यवहारवदिति भावः । तदेवमुदानं व्याख्याय सूत्रं व्याचष्टे । उदानादिति । उदानसंयमादन्यसंयमादोदानवायोः स्वायत्ततायां सत्यां जलप कण्टकादीनाम् उपरि संचरतोपि तेष्वसङ्को भवति तैर्विकारहेतुः संयोगो न भवति तथा अर्चिरादिमार्गे गमनाय स्वेच्छयोत्क्रान्तिर्भवतीत्यर्थः । प्रसङ्गादाह । तामिति । तामूर्ध्वमुत्क्रान्तिमुदानवशित्वं विना न लभते इत्युदानजयी स्यादित्यर्थः ।
२३६
समानजयाज्ज्वलनम् ॥ ३८ ॥
संयमविशेषजात्समानजयात् ज्वलनं भवतीत्यर्थः । भाष्ये उपध्मानम् उत्तेजनं कृत्वा ज्वलति सतीवत्स्वशरीरं दहतीत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org