________________
योगवार्तिकम् । श्रोत्राकाशयो: संबन्धसंयमादिव्यं श्रोत्रम ॥ ४० ॥
आदावाकाशशब्दार्थ तत्र प्रमाणं च दर्शयति । सर्वोत्राणामिति । यापीन्द्रियाण्याहंकारिकाण्येव नभौतिकानि इन्द्रियाणां प्रकाशात्मकतया प्रकाशात्मकान्तःकरणोपादानकत्वस्यैवाचित्यात् । तथाप्याकाशाश्रिततया. काशप्रतिष्ठत्वं यथानाश्रिततया मनसोत्रमयत्वर्माित । एतेनान्येषामीन्द्रियाणां भौतिकत्वं श्रुतिस्मृत्युदितं व्याख्यातम् । तत्तदतसंसृष्टतया इन्द्रियो. त्यत्त्या तत्ततेभ्य एव तदिन्द्रियाभिव्यक्तः । अत एव दिगात्मकाकाशादीनि पृथिवीपर्यन्तानि पञ्च श्रोत्रादिदेवाः श्रयन्तइति। शब्दानां चाकाशोपादानत्वमेवास्ति तथा च श्रेत्रशब्दयोराश्रय आकामित्यर्थः । श्रोत्रा. णामाकाशाश्रयत्वे पूर्वीचार्यसंमतिमाह । यथोक्तमिति । कालभेदेन तुल्यदे. शानि श्रवणाख्यज्ञानानि येषां पुंसां तेषामेकश्रुतित्वमेकदेशाच्छिवीत्रकत्वं तत्तत्काले भवतीत्यर्थः । स चैको देश आकाशमेवेति भावः । आकाशे प्रमाणमप्याह । तच्चैतदिति । तच्चतत श्रोत्रं शब्दश्चाकाशस्य लिङ्गमनु. मापकं नहि सममिन्द्रियमनाश्रयं स्यातुमर्हति गन्धवत् कर्ण शकुली च न तस्याधारो लोकान्तरगमनादिकाले कर्णशष्कुल्यभावात् कर्णविवपिधानेपि शब्दश्रवणप्रसङ्गाच्च । न च विवरपिधाने सति शब्दा एव ने न गच्छन्तीति वाच्यम् । भित्यादिवत् कर्णच्छिद्रस्यद्रव्याणामपि शब्दागमनाप्रतिबन्धकत्वात् । नापि शन्यमाधारो, ऽभावानभ्युपगमात् । अभावस्य भावा. धारत्वासंभवाच्च । नापि कर्णशष्कुल्यच्छित्रः पुरुषादिराधारः, विवरपिधानेपि तदवच्छेदेन चैतन्यादाभिव्यक्त्या पुरुषादेरनावृत्ततया शब्दग्रहणप्रसगात । तस्मात् पिधानयोग्यमेकं द्रव्यं श्रोत्राधारतयापेक्षितं तच्च परिशेपात् कर्णशकल्यवच्छिन्न नभ एव श्रोत्रगोलकतया सियतीति भावः । शब्दाधारतायामप्येवं परिशेषः कर्तव्यः । तथाहि । अवकाशस्य शब्दकारणत्वं तावत् सर्वसिद्धम् अवकाशश्च नावरणाभावमात्रम् अभावस्य भावानाधारत्वात अन्यथा सर्ववस्तूनामभावमात्रमूलकत्वापत्तेः । नापिपुरुषादिः । तेषां स्वस्वव्यापारामाच्यवनावकाशासंभवात् । आस्तत्वाभि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org