________________
योगवार्तिकम् । मतदेशेपि शब्दामुत्पत्तिप्रसङ्गात् । नापि वायुः । द्रव्यान्तरपरितेपि वेवा. दो घायुसंयोगेन शब्दप्रसङ्गात् । न च छिद्रवायुसंयोगोपि शब्दकारणं, तथा सति संयोगाधारतया छिद्रस्य द्रव्यत्वसिद्धै। तस्यैव शब्दाश्रयत्वं युक्तं शब्दो. त्पत्ताववकाशस्यैवाधिक्येनोपयोगदर्शनादिति । तस्मादावरणीयतयाकाशद्रव्यं सिद्धयतीति । अनावरण चानाशस्य लिङ्गं पर्वाचार्येरुक्तमित्याह । अना. वरणं चेति । अनावरणमवकाशः । र्याद हि अवकाशरूपमाकाशं न स्यात् तदा मूर्तद्रव्येषु स्याल्यादिष्वन्तस्तेजदिप्रवेशो न स्यात् । अथाभावण्वावकाशस्तीभावस्य भावाश्रितत्वनियमेनाकासिद्धेः । अस्माभिरभावानभ्युपगमाच्च । आत्मादिश्चावकाशो न संभवति आवरणासंभवादित्यु. मिति । आकाशस्य विभुत्वमपि प्रसङ्गात्साधति । तथेति । मूर्त्तत्वं परिच्छिचत्वम् अनावरणमनाक्तत्वम् असमानदेशत्वमिति यावत् । तथा चान्यतथिवीजलादिस्यले मूर्तस्य परिच्छिन्नस्य मतान्तरासमानदेशत्वदर्शनात् घटादिसमानदेशकस्याकाशस्य विभुत्वं सिद्धयति आकाशस्य परि. च्छिन्त्रत्वे मूर्तयोः समानदेशताविरोधादित्यर्थः । क्वाचित्कस्तु तथामूर्तस्यापीयपिशब्दः प्रामादिको ऽर्थासंभवात् । आकाशस्य विभुत्वे च 'आका. शवत्सर्वगतश्च नित्य' इति श्रुत्यादयः प्रमाणमिति। नन्वाकाशस्य विभुत्वे कथं कार्यत्वं घटते कथं वागामिभाष्येण्याकाशपरमाणुकथनमिति चेत्। उच्यते । आकाशं मन्तःकरणवत् वैशेषिकाणां पृथिव्यादिवत् कार्यकारणरूपेण द्विविधं तत्र कारणाकाशं तमोगुर्णावशेषतयैव व्यवहीयते तदानीमाकाशताव्यञ्जकशब्दादिविशेषगुणाभावात् कारणपृथव्यादिवत् तच्च कारणाकाशं गुणान्तरोपमृद्ध*सदंशत आदी शब्दजननयोग्यार्थरूपेण परिणमते क्षीराब्धिरिवामृतमथ नेशता दधिरूपेण ततश्चाणुसंघातेन पृथिवीवदेव महाभूताकाशमहंकारापेक्षया परिच्छिन्नं वायोरावरणम् उत्पयते इति । एतेनान्तःकरणोत्पत्तिरपि व्याख्याता इत्यमपि श्रुतिस्मृतिप्रसिद्धं प्रकृते कार्यकारणरूपत्वमवगन्तव्यम् । आकाशं प्रसाध्य श्रोत्रे प्रमाणं दर्शयति ।
* गुणान्तरोपसंमुष्टमिति पा०२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org