________________
योगवार्तिकम् । शब्दयहणानुमितमिति । तदेव विवृणोति । बधिरेति । एतेन चक्षुरादिप्वप्यन्वयव्यतिरेको प्रमाणमिति सूचितम् । अन्तःकरणे तु स्मृत्यादान्वयव्य. तिरको प्रमाणमिति । दानी सूत्रं योजयति । श्रोत्रेति । संबन्धश्चास्माभि. व्याख्यातः । उपलक्षणं चैतत् त्वग्वातयोश्चक्षुस्तेजसो रसनोदकयोघ्राणपृथिव्याः संबन्धसंयमादिव्यं त्वगादीयपि बोध्यम् । दिव्यत्वं च तन्मा
दिसूक्ष्मगोचरसंयमनरपेक्ष्येण स्वभावादेष तन्मात्रादिरूपसूक्ष्मशब्दादियाहकत्वमिति ।
कायाकाशयो: संबन्धसंयमात लघतलसमापत्तेश्चाकाशगमनम् ॥ ४१ ॥
__चकारो ऽत्र विकल्पार्थकः । कीदृशः संबन्ध इत्याकाङ्कायामाह। यत्रेति। यत्रासनादौ शरीरं तिष्ठति तत्र शरीरावच्छेदेनाप्याकाशं तिष्ठति । तत्र हेतुः तस्याकाशस्यावकाशदातृत्वाति, अतः कायस्याकाशेन संबन्धः प्राप्तिरूपो व्यापनमिति यावत् इत्यर्थः । तत्रेति । तत्र संबन्धे कृतसंयमः तत्संबन्धं जित्वा साक्षात्कारेणस्वेच्छाधीनं कृत्वा लघुर्भवतीत्यागामिना. न्वयो भविष्यति । द्वितीयहेतुं व्याचष्टे । लघुषु वेत्यादिना जितसंबन्धद्त्यन्तेन। समापत्तिं तत्स्थतदजनतां जितसंबन्धः स्वायत्तीकृतकायाकाशसंबन्ध इत्यर्थः । आकाशगतावुपायद्यसाधारणं क्रममाह । लघुरित्या दिना । प्रथमं लघुर्भवति । ततो लघुतया जले पृथिव्यामिव पयां संच. रतीत्यादिः क्रम इत्यर्थः । सुगममन्यत् ।
बहिरकल्पिता त्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४२ ॥
योगशास्त्रोक्तसंयमविशेषात् वक्ष्यमाणा बहिरकल्पिता वृत्तिर्महाविदेहाख्या सिद्धिर्भवति । ततश्च सत्त्वप्रकाशावरणभङ्ग इत्यर्थः । महा. विदेहां व्याख्यातुमादी सामान्यविदेहामाह । शरीरादिति । मनसो बहिर्वत्तिलाभोत्र स्वशरीरस्येव बहिर्वस्तूनां संकल्यादिवशता सा च बहिरधिष्ठानरूपा धारणा विदेहासामान्यमित्यर्थः । धारणेति च तान्त्रिकी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org