________________
२४०
योगवार्तिकम् । संज्ञा तस्या अवान्तरभेदमाह । सा यदीति । शरीरनिरपेनेति त्यक्तशरीरेत्यर्थः । अनयापि परशरीरावेशो लिङ्गदेहस्य भवतीति प्रसङ्गादाह । यति । तत इत्यादि सूत्रावयवं व्याचष्टे । ततश्चेति। क्लेशेति । क्लेशाश्च कर्म च विपाकत्रयं च यद्रजस्तमामूलकं सत्त्वस्यावरकं तस्य च समलस्य तयो भवतीत्यर्थः । तेषां क्षये च निरावरणं योगिनः चित्तं स्वेच्छया विहरति विजानाति चेति, च शब्दः स्वोक्तं परशरीरावेशं समुच्चिनोति। तदेवं परिणामत्रयसंयमादित्यारभ्योच्चावविषयकसंयमानां ज्ञानक्रियारूपा: सिद्धय उक्ता इदानी वितर्कविचारेत्यादिसूत्रैः स्वशास्त्रे मुख्यतः प्रकृतेषु ग्रहीतृग्रहणयाहीषु ये संयमास्तेषां सिद्धयो वक्तव्याः तत्र यहीय. हणयोः यायनिरूप्यत्वादादौ याह्मविषयकसंयमस्य सिदिमाह ।
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाझ्तजयः ॥ ४३ ॥ स्थ नं च स्वरूपं च सूत्मं चान्वयश्चार्थवत्त्वं चेति स्यू लस्वरूपसूक्ष्मान्वया. र्थवत्त्वानि तेषु संयमात्साक्षात्कारपर्यन्तात्तत्तद्र पाणां जयो वशवर्तिता भवतीत्यर्थः । स्थलं व्याचष्टे । तत्रेति । सामान्यविशेषसमहरूपाणां पृथिव्यादिपञ्चभूतानाम् एकदेशाः शब्दादयो विशेषाः धर्मधर्म्यभेदाः तद्वन्तः पदार्था वयमाणैराकारादिधर्मः सह स्थलशब्देन शास्त्रे परिभा. षिता इत्यर्थः । तन्मात्रव्यावर्त्तनाय विशेषपदं, ते च विशेषाः षड्गान्धा. रादयः शीतोष्णादयो नीलपीतादयो मधुराम्सादयः सुरभिदुर्गन्धादय.
चेति । एते हि नामकर्मभिरवान्तरं विभज्यन्तइति विशेषाः । अकारादयश्च धर्मा पृथिव्यादीनां क्रमेण शास्त्रे परिपठिताः । यथा
आकारो गौरवं शैक्ष्यं * वरणं स्थैर्यमेव च । वृत्तिभेदः क्षमा काश्य काठिन्यं सर्वभोग्यता ॥ खेहः सौम प्रभा शोल्यं मार्दवं गौरवं च यत् । शैत्यं रक्षा पवित्रत्वं संधानं चौदका गुणाः ॥ ऊर्ध्वभाव पाचकं दग्ध पावकं लघु भास्वरम् । प्रध्वंस्योजस्वि वै तेजः पूर्वाभ्यो । भिवलक्षणम् ॥ • रीयमिति पा०२।
+ पूर्वाभ्यामिति पा० २ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org