________________
योगवार्तिकम् ।
तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः ॥ सर्वतो गतिरख्य है। ऽविष्टम्भश्चेति ते त्रयः । श्राकाशधर्मी व्याख्याता पूर्व पूर्व विलक्षणाः ॥ इति । आकारावयवसंस्थानं वृत्तिः सर्वभूताधारता भेदा विदारणं क्षमा सहिष्णुता धारणं सामर्थ्यामिति यावत् । रक्षा आवरणादिना रक्षकत्वम् आक्षेपः पातनं सर्वतोगतिर्विभुत्वम् श्रव्यूहः सर्वपदार्थानां प्रविरलीकरणम् प्रविष्टम्भो ऽवकाश इति । प्रथमं रूपमिति । सूत्रोक्तं पञ्चरूपेष्वाढ्यं रूपमित्यर्थः । स्थूलं व्याख्याय स्वरूपं व्याचष्टे । द्वितीयं रूपमिति । स्वसामान्यं स्वस्वसामान्यमिति साधारणं लक्षणम् । कस्य किं सामान्यं तद्दर्शयति । मूर्त्तिभूमिरित्यादिना । मूर्त्तिः सांसिद्धिकं काठिन्यं तया पृथिवीत्वजातिः कार्यरूपेणाकाशस्याप्यनेकत्वादिति । अत्र सामान्यविशेषयोरभेदप्रतिपादनाय मूर्तिभूमिरित्यादाभेदनिर्देशः । कस्य विशेषस्येदं सामान्यमित्याकाङ्गायामाह । अस्येति । शब्दादयः पूर्वोक्ताः मलतारमन्दादिभेदेन सामान्यस्य नातेरेकदेशाद्यावर्तकतया विशेषा इत्यर्थः । अत्र पर्वाचार्यसंवादमाह । तथा चोक्तमिति । एकजातिसमन्वितानामेषां पृथिव्यादीनां शब्दादिधर्ममात्रेण व्यावृत्तिः सजातीयान्तरादित्यर्थः । एकजातिसमन्वितानामिति । समूहे समूहिवृत्त्यभिप्रायेण प्रयोगः । यत्तु वैशेषिकाः सामान्यविशेषयोरा श्रयमेव द्रव्यं मन्यन्ते न तु तयोर्भेदमपि तन्मताद्विविच्य स्वसिद्धान्तमाह । सामान्येति । अत्र दर्शने सामान्यविशेषयोः समूहे। द्रव्यम् अतिरिक्तावयव्यभ्युपगमेपि तयोरभेदस्थापि अभ्युपगमात् । अन्यथा घटो मृत् तन्तुः पटः शुक्लः पट इत्यादयभेदप्रत्ययानुपपत्तेरित्यर्थः । ननु समूहमात्रस्य द्रव्यत्वे वनस्याप्येकद्रव्यत्वापत्तिरित्याशङ्कां परिहर्तुमादी समूहस्य द्वैविध्यमाह । द्विष्ठा हीति । द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः । तत्रैकं प्रकारमाह । प्रत्यस्तमितेति । प्रत्यस्तमितः शब्देनानुपस्थापितो भेदोवान्तरविभागो येषामवयघानां तादृशेष्ववयवेष्वनुगत इत्यर्थः । तस्योदाहरणचतुष्कमाह । शरी
१६
Jain Education International
For Personal & Private Use Only
2४१
www.jainelibrary.org