________________
२४२
योगार्तिकम् । रमिति । आदा द्वयमेकद्रव्यरूपस्य समूहस्योदाहरणमन्त्यद्वयमनेकद्रव्यरूपसमूहस्येति भेदः यूथादौ च विशिष्टम्यातिरिक्तवाभिप्रायेणावयवानुग. तत्वमुपपादनीयम् । द्वितीयं समूहस्य प्रकारमाह । शब्देनोपातेति । अस्योदाहरणम् उभयेति । अत्रोभयशब्दवाच्यस्य समूहस्यावान्तरभेदी देवमनुष्यशब्दाभ्यामुपात्ता बहुवचनाभ्यां च तयोरप्यनेकभेदा उपात्ता इति शब्देनोपात्तभेदत्वं संक्षेपात स्वयमाह । समहरूपस्य देवा दति।भागोभेदः, ताभ्यां भेदाभ्याम् । स चेति । स च द्विविधापि समूहो भेदाभेदाभ्यां प्रयो. क्तभिर्विवक्षितो भवति । आमाणां वनमिति षष्टा भेदेन आम्रवणमिति च कर्मधारयादभेदेन विवता। एवमन्यत्रापि, तथा च समहसमहिनर्भिदा. भेदी स्त इति प्रतिपादितम् । स पुनरिति । स द्विविधो ऽपि समूहः पुर्द्विविधो भवति । द्वैविध्यमेवाह । युति । हलिकादिष्वपि संयुक्तत. या संबद्धतया सिद्धा अपवादयस्य समूहस्य यूथवनादेः स तथा । अयुते. ति । अयुतसिद्धावयवः समूहः संघातस्तस्य विवरणं शरीरमित्यादि । लौकिकेष्वसंयुततया एकीभावेनैव सिद्धा अवयवा यस्य समूहस्य शरीर. तादेः स तथेत्यर्थः । परमाणुरिति । परमाणुनामपि पञ्चचतुरादितन्मा. नासमूहताया वत्यमाणत्वादिति भावः । तदेवं समूहभेदान् प्रदर्य तेष्ववयविद्रव्यरूपं समूहं विशिष्यावधारयति । अयुतेति। संयोगविशेषावच्छिवेष्ववयविशेषेषु अनुगतः सामान्यविशेषसमूहो ऽवयव्याख्यं द्रव्यमित्यर्थः । अवयवसाधारणं तु सामान्यतो द्रव्यलतणं सामान्यविशेषसमुदायत्वमात्रमिति, उपसंहरति । एतत्स्वरूपमित्युक्तमिति । एतत्सामान्य स्वरू. पशब्देन परिभाषितमित्यर्थः । स्वरूपपरिभाषा च स्थिरतामात्रेण विशेषा ह्यागमापायितया न द्रव्यस्य स्वरूपाणोति । यत्तु पूर्वपादे स्थूलस्वरूपे एकीकृत्यावविद्रव्यमेव वितानुगतयोगस्य विषयः स्यूलमित्युक्तं तल्लीकिकस्थलव्यवहारानुसारेण । अत्र तु तान्त्रिकव्यवहारेण तस्यैव द्विधा विभागः । एवमेव विचारानुगविषयस्य सूत्मस्यैवात्र सूक्ष्मादित्रैविध्यं वक्ष्यतीति द्रष्टव्यम् । स्वरूपं व्याख्याय सूत्म व्याख्यातुं पृच्छति । अथेति । एषां भूतानाम् । उत्तरं, तन्मात्रर्माित । तत्र सूत्मपरिभाषाबीजमाह ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org