________________
२४३
योगवार्तिकम् । भूतकारणमिति । साक्षात्कारणत्वमेव हि सूक्ष्मत्वमा वितितमित्याशयः। भूतकारणत्वप्रकारं दर्शयति । तस्येति । तस्य भूतस्य एकश्चरमोऽवयवः परमाणुः सोपि च घटादिवदेव सावयवः । अन्यथा स्थूलत्वानुपपत्तेः । शान्तघोरमठत्वरूपविशेषानुपपत्तेश्च । इत्येवमित्यतः सर्वतन्मात्राण्येव भूतकारणानि अवयवान्तरासंभवादित्यर्थः । उपसंहरति । एतत्ततीयमिति । एतत्तन्मात्रं तृतीयं भूतानां रूपमित्यर्थः । अन्वयाख्यं चतुर्थ रूपं व्याचष्टे । अथेति । अथानन्तर,मुच्यतइति शेषः। त्रिविधा गुणा एवान्वयशब्देनोक्ताः तत्र हेतुः कार्यस्वभावानुपातिन इति । कार्यरूपो यः स्वीयो भावः स्वात्मकः पदार्थः तत्रानुगता अतोन्वया इत्यर्थः । ननु भूतेषु प्रख्याशीलस्य सत्त्वस्यानुगमे किं प्रमाणमिति चे, 'दवमयं हि सोम्य मन' इत्यादिश्रुतयो ऽन्वयव्यतिरको चेति प्रतीहि । प्रकाशात्मकतया सात्त्विकानि हि मनश्चक्षुरादीन्यवरसादापचयापचयाभ्यामुपचयापचयन्ति दृश्यन्ते अतः पृथिव्यादिभूतेषु मनादिकं तदुपष्टम्भकसत्त्वं वानुगतमित्युचीयतइति । पञ्चमं रूपमाह । अथैषामिति । गुणेषु वर्तमानं यदोगापवर्गजातं भोगविवेकख्यातिरूपं तदेव पञ्चमं रूपमर्थवत्त्वायमित्यर्थः । नन्वेवं गुणेषु वर्तमानमर्थवत्त्वं कथं भूतानां रूपं स्यात्तत्राह । गुणास्तन्मात्रेति । ननु भोगापवा शब्दायुपलब्धिविवेकख्याती ते चान्तःकरणएव वर्तते न साक्षाद्गाित चेत्र । अनागतावस्यया वासनारूपेण वा तयोपि प्रल. यकाले गुणेष्वेवावस्थानात कारणक्रमेणैव कार्येष्वनुगतयोरभिव्यक्तरिति । पञ्चरूपाणि व्याख्याय सूत्रवाक्यार्थमाह । विति । इदानी भूतेषु इदानीमुत्पन्चेषु इदानीतनेषु स्थलभुतेष्वित्यर्थः । तन्मात्रादिषु पञ्चरूपत्वाभावात इदानी भूतेष्वित्युक्तं स्वरूपदर्शनं च संयमस्य जयहेतुत्वे द्वारमुक्तं जयो वशीकारः । तत्र पञ्चति । एकैकमात्रजये हि गौणो भूतजयः सामव्येणाजयादिति भावः । वशीकारमेव कार्यद्वारा लक्षति । तज्जयादिति । भूतप्रकृतयो भूतकारणानि त्रिगुणतत्स्थपुरुषार्थपर्यन्तानीत्यर्थः, न तु तन्मात्राण्येव केवलानि गुणपुरुषार्थयोरपि संयमेन साक्षात्कृतत्वादिति । भूतजयस्य फलं प्रतिपादयति ।
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org