________________
योगवार्तिकम् ।
नतोणिमादिप्रादुर्भावः काय संपत्तमानभिघातश्च ॥ ४४ ॥
तत्र त्रिषु मध्ये ऽणिमादाष्टसिद्धीव्यांचष्टे । अणिमेति । स्वेच्छया यदणुपरिमाणशरीरो भवति तदणिमा | संकल्पमात्रेण तत्क्षणादेवावयवापचयेन सौक्ष्म्यं देहस्य भवति, भूतप्रकृतिवशित्वादिति । एवं सर्वत्राणिमायाश्च शास्त्रे गणिताः ।
२४४
अणिमा महिमा चैव * लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्ति प्रेरणमीशिता ॥ गुणेष्वसा वशिता यत्कामस्तदवस्यति ।
इति । लघिमानमाह । लघुरिति । गुरुतर शरीरोपीषिकातूलबल्लघुर्भवतीत्यर्थः । स्पृशतीति । भूमिष्ठ एवेति शेषः । अवयवे । पचयेनाङ्गुलिदैर्घ्यदिति । एताश्चतस्रः स्थूलसंयमसिद्धयः । स्वरूप संयमस्य सिद्धिमाह । प्राकाम्यमिति । इच्छानभिघात इति । सत्यामिच्छायां नास्य रूपं भूतस्य रूपैर्मूत्यादिभिर्विहन्यते, भूतस्वरूपाणां जितत्वादित्यर्थः । तस्योदाहरणं भूमाविति । उन्मज्जति जलमिव भूमिमुद्वियोत्तिष्ठति निमज्जति अलदव भूमौ प्रविशति चेत्येवमादिः प्राकाम्यमित्यर्थः । सूक्ष्मसंयमस्य सिद्धिमाह । वशित्वमिति । भूतभौतिकेष्विति । भूतेषु व्यष्टिषु भौतिकेषु तत्कार्येषु समष्टिमहाभूतेषु ब्रह्माण्डादिषु चेति व्याख्येयम् | जगझापारवमिति वेदान्तसूत्रेण सिद्धेष्वादिसर्गसामर्थ्याभाववचनादिति । वशीभवति स्वेच्छया परिणामने समर्थ भवति तत्कारणतन्मात्रविजयात् । तथा तेषामवश्योऽपि भवति । रागा । दित्यर्थः । अन्वयसंयमस्य सिद्धिमाह । ईशित्वमिति । तेषामिति । तेषां भूतानां तन्मात्रद्वारकोत्पत्तिविनाशय। हाख्यसंस्थानविशेषे च समयो भवति भूतानां मूलप्रकृतिविजयादित्यर्थः । अर्थवत्त्वसंयमस्य सिद्धिमाह । यत्रेति । यत्र कामाव सायित्वमिति । तान्त्रिकी परिभाषा पुराणेष्वप्येवमवगमात् । भूतप्रकृतीनां गुणतन्मात्रादीनामवस्यानं परिणामविशेषः । विजितार्थसंबन्धा हि
1
मूर्त्तिरिति पा० २ ।
+ रागादिनेति पा० २
*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org