________________
योगवार्तिकम् ।
२४५
योगी यादर्थतया यदाद्वस्तु संकल्पयति तत्तद्वस्तु तदर्थकमेव भवति विषमध्यमृतस्यार्थं संकल्प्य भोजयन् जीवलोकं सुखाकरोतीति । नन्वेवं योगी जलमपि तेजः कुर्यात् धर्ममप्यधर्म कुर्यात् इत्यव्यवस्थेवः स्यादित्याश याह । न च शक्तेोपीति । पूर्वपूर्वयो गिव्यवहारानुसारेणैव योगी व्यवहरति अन्यथा तुल्यबलविरोधेन व्यवहारासंभवात् । विरोधमेव दर्शयतिः । अन्यस्येति । पूर्वेषां तथाभूतेषु यथादृष्टेष्वेव संकल्पादिति वाक्यार्थः । तथा च श्रुतिः । 'धाता यथापूर्वमकल्पयदिति । स्वनियम पालनार्थमन्त मा तथैव सिद्धः प्रेर्यतइति द्रष्टव्यम् । उपसंहरति । इत्यष्टावैश्वर्यागोति । अणिमाष्टसिद्धिव्याख्यापूरणायैव प्राकाम्यमत्र भाष्यकारैः कथितं न त्वत्र सूत्रे प्राकाम्यमणिमादिमध्ये विवक्षितं तद्धर्मानभिघातः इत्यनेनैव प्राकाम्ययहणेन पैानरुक्त्वापत्तिरिति । कायसंयमादित्यादि सुगमं, प्रसि द्वत्वात्सिद्धिद्वयविवेचनानपेक्षया केवलां कायसंपदं सूत्रकारो विवृणोति । रूपलावण्यबलवज्ज्रसंहननत्त्वानि कायसंयमात् ॥ ४५ ॥
वज्रस्येव संहननं प्रहारो यस्येति वज्रवनिबिड ! दृढः संघातो यस्येति वा वज्रसंहननः । भाष्यं सुगमम् । ग्राह्यसंयमस्यः सिद्धय उक्तोः यहसंयमस्य सिद्धीराह । ग्रहणस्वरूपास्मितान्वयार्थवत्त्व संयमादिन्द्रियजयः ॥ ४६ ॥
ग्रहणं च स्वरूपं चास्मिता चान्वयश्वार्थवत्त्वं च तेषु संयमात्साक्षात्कास्पर्यन्तात्त* द्रूपाणामिन्द्रियाणां नयो भवतीत्यर्थः । यहणं व्याचष्टे । सामान्येति । वृत्तिरालोचनं विषयाकारपरिणामविशेषः चिन्तावधारणाभिमानसंशयरूपादन्तःकरणानामसाधारणवृत्तिचतुष्काद्विलक्षणो दर्शनस्पर्शननामायापि सोपि स्मरणादयनुरोधेनान्तःकरणस्यैव । तथापि चतुरायुपष्ट म्मेनैव भवतीति कृत्वा दर्शनादिश्चतुरादीनामुच्यते । तथा चोक्तं सांख्येः सान्तःकरणा बुद्धिः सबै विषयमवगाहते यस्मात् तस्मात्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥
● तत्तदिति पा० २ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org