________________
२४६
योगवार्तिकम् । - इति । न तु आलोचनशब्दार्थी निर्विकल्पकं जानं चतुरादिमात्रवृत्त्येवेति कल्पनीयम् । एवं सति चतुरादिनैव वैशिष्टास्यापि यहणसंभघात सर्ववृत्तीनां चित्तनिष्ठत्वस्य भाष्ये प्रोक्तत्वाच्च । ये तु बौद्धा विशे. षस्य मनोमात्रस्य गोचरत्वमभ्युपगम्येन्द्रियवृत्तिं सामान्यमाविषयिणीमाहुस्तान प्रत्याचष्टे । न चेति । न च तत् इन्द्रियं सामान्यमात्रेण यहणमाकारी रूपं यस्य तथा भवतीत्यर्थः । तत्र हेतुः कथमित्यादि । स विषयगतो विशेष इन्द्रियेणानालोचितः कथं मनसानुव्यवसीयेत गृह्येत मनसो बहिरस्वातन्त्र्यात अन्यथा चक्षुरादागोचरार्थानां मनसा विशेषयहणप्रसङ्गादित्यर्थः । इन्द्रियाणां द्वितीयं रूपमाह। स्वरूपमिति । प्रकाशास्मनो बुद्धिसत्त्वस्य कार्या ये ऽयुतसिद्धा अवयवभेदाः सात्त्विकाहंकार. रूपास्तेष्वनुगतः सामान्यविशेषरूपयोः समहो द्रव्यमिन्द्रियमित्यर्थः । तत्र विशेषाः यहणरूपा नीलपीतायाकाराः परिणामभेदाः सामान्यं च चतु. वादीति । ननु पूर्वसूत्रवदनापि स्वरूपं केवलं सामान्यमेवोचितम् अन्यथा यहणाख्यप्रथमरूपस्याप्यत्रैव प्रवेशापत्तेरिति चेत्सत्यम् । सामान्य. प्राधान्येनैव स्वरूपत्वमत्रापि वितितम् । तथापि भूतदिन्द्रियस्यापि सामान्यविशेषाभ्यामत्यन्तनिषेध* प्रतिषेधायैव समुदायो द्रमित्युक्तम् । तेषां तृतीयं रूपमिति । तेषामिन्द्रियाणां तृतीयं रूपम् । अवयवशब्देनो. तोहंकारः तत्राभिमानाख्यत्तिमनिरासायास्मितालतंण इति विशेषणम् अस्मितात्तिक इत्यर्थः । ननु कथमहंकार इन्द्रियाणां रूपमित्याकाङ्कायामाह । तस्यति । यथा तन्मात्रस्य सामान्यस्य भूतानि विशेषा एवमहंकारस्य सामान्यस्य चतुरादीनि विशेषाः कार्यत्वात् । अत इन्द्रियेष्वनुगततया अहंकार इन्द्रियाणां रूपं भूतानां तन्मात्रवदिति भावः। इन्द्रियाणां चतुर्थ रूपमाह । चतुर्थमिति। महत्तत्त्वस्यापि चतुर्थरूपमध्ये प्रवेशाय व्यवसायात्मका ति गुणानां विशेषणं व्यवसायाख्यबुद्धिरूपेण परिणतास्तद्विशिष्टा इत्यर्थः । एतेन पूर्वोक्तभतजयसूत्रेप्यन्वयाख्यचतुर्थरूपमध्ये महदहंकारयोः
___* भेदेति पा०२।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org