SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ योगवार्तिकम् । २४७ प्रवेश इत्युचेयं युक्तिसाम्यादिति।येषामिति। साहंकाराणि सान्तःकरणानि। पञ्चमं रूपमाह । गुर्णोष्यति । इन्द्रियप्रष्ठतिगुणेष्वत्यर्थः । सूत्रवाक्यार्थ व्याचष्टे । पञ्चस्विति । यथाक्रमं यहणादिक्रमेण संयमः कार्य इति शेषः। ततश्च तत्रतत्र जयं कृत्वा पञ्चरूपजयात् सर्वरूपैरिन्द्रियजयस्तदशीकारो भवतीत्यर्थः । ततश्च वत्सानुसारिण्यड्व गावोस्य संकल्यानुविधायिन्य इन्द्रियप्रकृतयो भवन्तीति शेषः । इन्द्रियजयात्सिद्धीराह । ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४७ ॥ व्याचष्टे । कायस्येति । अनुत्तमो मनोवच्छीघ्रतरः कर्मेन्द्रियवृत्तिवि. जयादवति । विकरणभावस्य स्वरूपमाह । विदेहानामिति । स्थूलदेहसंपर्करहितानामित्यर्थः । इन्द्रियाणामिति । करणसामान्योपलक्षणम् । विकरणभावशब्दस्य योगार्थमाह । अभिप्रेतेति । अभिप्रेतकालदेविषयापे. तस्तदपरित्यागी यत्रैव देशादिषु वृत्तिलाभ इष्यते तत्रैव भवतीत्यर्थः । तथा च विकरणभावो विकीर्णतास्वभावो व्यापितेति यावत । य एवंविधकरणभावोपपत्रा योगिनस्तएव स्थानेस्थाने विदेहा इत्युक्ताः । सर्वति । सर्वासां व्यक्तिभेदेनानन्तानां भूतेन्द्रियप्रकृतीनां सत्त्वादिगुणानां तद्धिकाराणां च सर्वेषां स्वेच्छयानुविधानं प्रधानजय इत्यर्थः । ननु भूतप्रकृतिजयो भूतजयो वा कमिन्द्रियजयादिति चेत् न । भूतजयरूपपूर्वभूमिकायामेव तयोर्जितत्वेनोत्तरभूमिकायामेकीकृत्य सर्वजयकथनादिति । एतएव च प्रधानजयिनः पूर्व स्थानेस्थाने प्रकृतिलया इत्युक्ताः प्रकृत्या सहकतां गता इति प्रकृतिलयाः प्रकृतिवशिनः । एतास्तिस इति । अत्र सिद्धिविशेषाणामेव मधुप्रतीकसंज्ञावगमायोगभूमिचतुष्टयस्य पृथगेव पश्चात्यमाणत्वा. च्च। योगभूमर्मधुप्रतीकसंज्ञेति कस्य चिद्याख्यानमबोधमूलत्वादुपेक्षणीयम्। तत इति सौत्रं पदं व्याचष्टे । एताश्चेति । नन्विन्द्रियजये कथं प्रकृतिमहदहंकाराणां जय इति चेत्र । इन्द्रियरूपेष्वन्तिमरूपत्रयत्वात्तेषामिति। तदेवं याह्मयहणसंयमयोः सिद्धिमुक्तवा यहीतृसंयमस्य सिद्धिमाह ।। सत्वपुरुषान्यताख्यातिमावस्य सर्वभावाधिष्ठातृत्वं सर्वजातृत्वं च ॥४८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy