________________
२४८
योगवार्तिकम् ।
मात्रशब्देन संयमरूपा ख्यातिलब्धा तथा सत्त्वपुरुषान्यतामंय. मस्य धर्मधर्म्यभेदात तद्वतश्चित्तस्य सर्वभावेषु प्रकृतितत्कार्यपुरुषेषु अधिष्ठातृत्वं स्वेच्छया विनियोक्तत्वं स्वदेहइव भवति । तथा प्रतिपुरुषा. दिसर्वज्ञातृत्वं च भवतीत्यर्थः । अत्रापि संयमः साक्षात्कारपर्यन्तो बोध्यः संयमनिष्यत्तेरेव सिदिहेतुत्वात् । ननु परार्थात्स्वार्थसंयमादितिस जोक्तसंयमतो ऽस्य को भेदः येन तत्र पुरुषजानं सिद्धिरत्र अन्या सिद्धिरिति सिद्धिभेदः स्यात् । उच्यते । तत्र पौरुषेयप्रत्यये सुखादानुभवरूपे परिच्छवएव संयम उक्तः न तु अपरिच्छिन्ने पुरुषे । अत्र तु तेन संयमेन जाते परिपूर्ण पुरुषे बुद्धिविवेकसंयम उच्यते इति विशेष इति । ननु सत्त्वतिविशेषवचनमर्नुचितं गुणपुरुषान्यतेत्याझेब वक्तमुचितमिति चेत्र । रजस्त. मोभ्यां पुरुषे साक्षादविवेकाभावात बुद्धिसत्त्वविवेकद्वारैव देहेन्द्रियादि
वविवेकात स्वप्नबाधिर्यादावस्यासु चेतने देहेन्द्रियादिविवेकस्य योगार. म्भकालएव बालकैरप्यवधृतत्वाच्चेति । दिदं सत्रं व्याचष्टे । निर्धतेति। परवेशारदा परमस्वच्छता अतिसूक्ष्मवस्तुप्रतिबिम्बोदहणसामर्थ्यमिति यावत् । परमवशीकारसंज्ञा च परमाणुपरममहत्त्वान्तास्य वशीकार इत्युक्ता । रूपेण प्रतिष्ठस्य रूपप्रतिष्ठस्य । सर्वभावाधिष्ठातृत्वं विवृणोति । सर्वात्मान इति । सर्वात्मान इत्यस्य विवरणं व्यवसायव्य. वसेयात्मका इति करणतद्विषयात्मका इत्यर्थः । अशेषदृश्यति । संकल्पमात्रेण पुरुषैः संयुक्ता असंयुक्ताश्चाशेषभोग्यवस्त्वाकारेण परिणता भूत्वो. पतिष्ठन्ते योगिन, तत्र हेतुगर्भविशेषणं स्वामिनं क्षेत्रमिति । यतोसौ भोक्त. त्वात्प्रेरकोऽतस्तम् अयस्कान्तलाहवदुपतिष्ठन्तइत्यर्थः। यद्वायतोसोस्वामी ईश्वरः क्षेत्रजश्च परिणामक्षेत्राणि गुणादीनि प्रवर्त्तर्यात परिणामनप्रकारैः जानाति चेत्यर्थः। यद्यपि सर्व पुरुषाः सर्वगुणानामविशेषेण स्वामिनस्तथापि पापादिप्रतिबन्धात्सर्वे गुणाः सर्वदा सर्वपुरुषाच भोग्यत्वेनोपतिष्ठन्तति भावः । तथा च श्रुतिः । ‘स यदि पितृलोककामः संकल्यादेवास्य पितरः समुत्तिष्ठन्ती'त्यादिरिति । क्रियैश्वर्यरूपां सिद्धिं व्याख्याय ज्ञानेश्वर्यरूपां व्याचष्टे । सर्वज्ञातृत्वमिति । सर्वात्मनां सर्वपुरुषाणां बद्धमुक्तेश्वराणां
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org