________________
योगवार्तिकम् ।
२४९ शान्तादिरूपधर्मविशिष्टगुणानां चैकदैव ज्ञानं सर्वज्ञातृत्वमित्यर्थः । तस्य संज्ञा विधेकमिति । विवेकेन जायमानं यथार्थसातात्कार ति यावत् । अथ वा प्रतिपुरुषविवेकाज्जायमानमित्यर्थः । सान्वयेयं संजेति। विशेषसंजाया अन्वर्थतामाह। यां प्राति। तीणकेशबन्धनत्वात् शोकशन्यतेति भावः । सर्वसिदिमईन्यं विवेकख्यातिरूपसंयमस्य परवैराग्यद्वारा माताख्यं सिद्धान्तरमाह।
तहेराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ४ ॥ ____अपिशब्दः कैवल्यमित्यनेनान्वेति । तथा च विवेकख्यातिनिष्ठात एव विवेकख्यातो तस्या यथोक्तसिद्धा च वैराग्ये सति असंप्रज्ञातयोगेन दुःखदोषस्य बीजानामखिलवासनाकर्मणां चित्तेन सह लये सति पुरुषस्य कैवल्यं पुनर्गुणासंयोगरूपमपि भवतीत्यर्थः । वैराग्यकारणमाह । यदेति । केशकर्मक्षयरूपकर्त्तव्यसमाधी यदा योगिन एवं भवति एवं विचारो भवति। एवंशब्दार्थमाह । सत्त्वस्येत्यादिना सत्त्वादीत्यन्तेन । वैराग्यकारणमुतवा कैवल्ये पुरुषार्थ प्रतिपादयति । एवमस्येत्यादिना न भुइत्यन्तेन । अत्र न भुङ्कति वचनात् भागाभाव एव पुरुषार्थ इति स्मर्त. ध्यं, दुःखाभावस्तु परम्परया पुरुषार्थ इति भावः । इदानी सूत्रार्थ व्या. चष्टे । तदेतेषामिति । तत् तदा यदेत्युक्तेनान्वयः । तदा परवैराग्या. वस्थायां संस्काररूपाणां दुःखबीजगुणानां सत्त्वादिगुणस्थानां कार्यावस्थमनसि शादिरूपेणाभिव्यक्तिस्वभावकानां चरितार्थानां समानपुरुषाथानां प्रतिप्रसवे मनसा सह लये सति पुरुषस्यायन्तिको गुणवियोगः कैवल्याख्यो भवतीत्यर्थः । मोक्षेण पुरुषस्य परिणाममपाकरोति । तदेति । कैवल्याख्यसियर्थिनी योगिनो यथोक्तवैराग्यवदेव साधनान्तरमाह, अथ वा संप्रति कैवल्यप्रसङ्गतः कैवल्यसाधने प्रवृत्तस्य योगिनस्तत्मत्यहसं. भवे तविराकरणप्रकारमाह। स्थान्यपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात ॥५०॥ ___स्थानिनः स्वर्गादिलोकाधिकारिणो देवा इन्द्रादयः तेषां स्वलीके
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org