________________
२५०
योगवार्तिकम् ।
1
नयनाय योगिनो निमन्त्रणे सति तत्र सङ्गस्मयाकरणमुपायः । सङ्गे स्मये च का क्षतिस्तत्राह सङ्ग स्मयाभ्यां पुनरपि संसारप्रसङ्गात् । सङ्गः प्रीतिः स्मयश्च देवानां प्रार्थनेनात्मनि कृतार्थताभिमान इत्यर्थः । तत्र यस्यां भूमिकायां स्या न्युपनिमन्त्रयां भवति तां वक्तुं योगिनां भूमिकाचतुष्टयमाह । चत्वार इति । प्रथमकल्पिकस्य स्वरूपमाह । तत्राभ्यासीति । प्रवृत्तमात्रं न तु निष्पक्ष ज्योतिज्ञानं यस्य स तथा सवितको दिरूपापरप्रत्यक्षवान् न तु ऋतंभरप्रज्ञ इत्यर्थः । मधुभूमिकस्य स्वरूपमाह । ऋतंभरेति । ऋतं सत्यमेव बिभ तौति व्युत्पत्त्या परप्रत्यक्षमेव ऋतंभरा प्रज्ञात्र विवक्षिता सा च परिशेषात् निर्वितर्करूपा भूमिकैव तदुत्तरभूमिकानां तृतीयादावेवान्तर्भावादिति । प्रज्ञाज्योतिषः स्वरूपमाह । भूतेति । ऋतंभरप्रज्ञातोस्य विशेषमाह । सर्वेष्विति । सर्वेषु भावितेषूत्पादितेषु निर्वितकादियेोगेषु कृतो रक्षारूपो बन्धो येन स तथा, तथा भावनीयेषु उत्पादनीयेषु विशेोकादिसिद्धयादिष्वसंप्रज्ञातपर्यन्तेषु विहितसाधनवानित्यर्थः । अतिक्रान्तभावनीयस्य स्वरूपमाह । चतुर्थ इति । चित्तप्रतिसर्गे ऽसंप्रज्ञातसमाधिना चित्तविलयमात्रं कर्त्तव्यमवशिष्यतइत्यर्थः । प्रज्ञाज्योतिषोस्य विशेषमाह । सप्तविधेति । प्रज्ञा जातेति शेषः । युक्तासु योगभूमिषु स्यान्युपनिमन्त्रणस्य भूमिमवधायति । तत्रेति । प्रथमभूमिकायां तावन्महेन्द्रादीनामेतादृशानुग्रह एव न भवति तृतीयचतुर्थभूमिकयोस्तु देवादय उपेक्षणीया एव भवन्ति अतो. मधुभूमिकायां द्वितीयायामेव निमन्त्रणं भवतीत्याशयः । साक्षात्कर्वतः स्वयं मधुमती भूमिका जातेत्यनुभवतः । अनेन भूमिनिष्पत्तिरुक्ता, निष्प मधुभूमिकस्येत्यर्थः । उपनिमन्त्रणप्रकारमाह । भो इहेत्यादिना देवानां प्रियमित्यन्तेन । सङ्गस्मयाकरणं व्याचष्टे । एवमभिधीयमान इति । सदोषान् विषयप्रीतिजान् । दोषचिन्तनप्रकारमाह । घोरेष्वित्यादिना कुर्यामित्यन्तेन । सङ्गं त्यक्त्वा यत् कर्त्तव्यं तदाह । स्वस्तीत्यादिना । भावयेत् कुर्यात् । स्वयं विवृण्वानस्तत्कारणदोषमाह । एवमहमिति । न भावयिष्यति न चिन्तयिष्यति यत्रोपचर्यः यत्नप्रतीकार्यः । सङ्गस्मयाकरणस्य फलमाह । एवमस्येति । सर्वज्ञत्वेपि वैराग्यान्मोक्ष इत्युक्तं यदि च
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org