________________
योगवार्तिकम् ।
-
तर्कसमापतिसूत्रे ऽस्माभिः प्रोक्त इति दिक् । लक्षणपरिणामं परीक्ष्यावस्थापरिणामं परीक्षितुं धर्मगतं विभागमाह । ते लक्षिता इति । लक्षिता व्यक्ता वर्त्तमाना इति यावत् अलक्षिता अव्यक्ता अतीतानागता इति यावत् । तांतां बाल्ययोधनवार्धकाव्यवस्यां प्राप्नुवन्तेोन्योन्यमन्यत्वेन भेदे - नोच्यन्ते बालायं न युवेत्यादिरूपेण । स च निर्देशो ऽवस्थान्तरतो ऽवस्याभेदादेव न तु द्रव्यभेदादित्यर्थः । तथा च पूर्वावस्थापाये अवस्थान्तरप्राप्तिः सिद्धा सैव चावस्यापरिणाम इति भावः । यद्यप्येतादृशोऽवस्थापरिणामो ऽनागतातीतलक्षणयेोरपि पूर्वमुक्तः । तथापि वर्तमानलक्षणस्यैवावस्यापरिणामः स्फुटमुपलभ्यतइत्याशयेन वर्त्तमानलक्षणमालम्व्येव स उदाहृत इति । धर्मिण एकत्वेपि निमित्तभेदेनान्यव्यवहारे दृष्टान्तमाह । यथैकेति । यथा एकत्वव्यज्जिका रेखा अङ्कविशेषो यदा बिन्दुद्वयोपरि तिष्ठति तदा शतमिदं नैकमिति व्यवहीयते । तयोरेकबिन्दु लोपे च दशेदं न शतमिति व्यवह्रीयते अवशिष्ट बिन्दुस्थाने चैकत्वव्यज्जकरेखान्तरदाने सति एकादशेदं न दशेतीत्यर्थः । दृष्टान्तान्तरमाह । यथा चेति । उच्यतइति । पुत्र पितृभ्रातृभिर्जनकत्त्वादिनिमित्तभेदान देनेति शेषः । अवस्थापरिणामेपि बौद्धोक्तं दूषणमुदाहरति । अवस्येति । अवस्थापरिणामाभ्युपगमे धर्मधर्मलक्षणावस्थानां चतुर्णामेव कोटस्थ्यापत्तिरित्यर्थः । तत्र हेतुं पृच्छति । कथमिति । उत्तरम् । अद्भुनो व्यापारेण व्यवहितत्वादिति । व्यापारनिमित्तेनैव सर्ववस्तुष्वनागतादयध्वनामन्योन्यं व्यवहितत्वाभ्युपगमात् विभागाभ्युपगमात् न तु भावरूपेण धर्मलक्षणयोः सदा सत्वस्येष्ट. त्वादित्यर्थः । अधुना विभागस्य व्यापारनिमित्तकत्वं विवृणोति । यदा धर्म इत्यादिना तदा अतीत इत्यन्तेन । धर्मशब्दात्राश्रितमात्रवाची न करोति न करिष्यतीत्यर्थः । श्रान्ताध्वनेोर्विभागस्य व्यापारनिमित्तकत्वं व्यापाराभावनिमित्तक्रत्वेन परम्परयेति भावः । एवं च सति पूर्वधर्मातीततायां धर्मान्तराभिव्यक्तिरित्येवंरूप परिणामलत्तणाचित्यत्वमवस्थानामपि भवद्विक्तव्यं न तु विनाशः । अवस्थानां च नित्यत्वे किमप्यनित्यं न स्यादित्येवं धर्म्मधर्म्यादिकं सर्व जगत् कूटस्थं स्यादिति परदोष उच्यतइति
1
Jain Education International
For Personal & Private Use Only
१९९
www.jainelibrary.org