________________
२००
योगवार्तिकम् । उपसंहारः। नित्यत्वमानं न कैटस्थ्यं किं त्वेकान्तनियत्वमित्याशयेन पूर्ववतुन दोषं परिहरति । नासा दोष दति। कोटस्यदोषो नास्तीत्यर्थः । गुणिनित्यत्वेपीति । धर्मिनित्यत्वेपि धर्माणां विमर्दस्य विनाशस्य कट. स्थतो वैवित्र्यात् वैलतण्यादित्यर्थः । अपरिणामनित्यतैव कौटस्थ्यं तच्च पुरुषातिरिक्त नास्तीति भावः । गुणिनि त्यपि गुणानां विमर्दमुदाह. रति । यति । यति न दृष्टान्ते किं तदाहरणे । संस्थानमिति । अर्यवि. नाशेनाविनाशिनां शब्दादितन्मात्राणां पञ्चभतरूपं संस्थानं धर्ममात्रमादिमत इत्यतो विनाशीत्यर्थः । एवमित्यादाप्येवं व्याख्येयम् लिङ्गं महत्तत्वम् । एवमहारादयो घटादयश्च स्वविनाशेनाविनाशिनां कारणानां धर्ममा. त्राणि विनाशिन इति बोध्यम् । तदेतच्छ्रुत्त्याक्तम् । 'वाचारम्भणं विकारो नामधेयं मृत्तिकेन्येव सत्य'मिति । सत्यं विकारापेक्षया स्थिमित्यर्थः । तस्मिविति । तस्मिन् धर्म विकारसंज्ञा परिणामसंज्ञेत्यर्थः । अतो धर्मिणां परिणामिनया न कोटथ्यं सुतरां तु धर्मलक्षणावस्थानमिति भावः । परिणामत्रयं विस्तरेण परीक्षितम् । इदानीं भूतेन्द्रियेषु परिणामत्रयं क्रमेण दर्शयति । तत्रेदमुदाहरणमिति। धर्मत इति । धर्मेण परिणमतइत्यर्थः। धर्मपरिणामस्य स्वरूपं दर्शर्यात । घटाकार इतीति । स परिणामो घटाकार इत्यर्थः । नवपुराणतामिति । नवीनतानन्तरं पुराणतां प्राप्नुवधित्यर्थः । धर्मादीनां सर्वेषामेवावस्थात्वाविशेोप गोबलीवर्दन्यायेनैवैषां तान्त्रिको भेदनिर्देश इत्याह । धर्मिणोपीति । लतणस्य च पुराणत्वादिकमवस्येति प्राप्रत्वादेव नोकम् । एक एवेति । अवस्थामात्र एवेत्यर्थः । एव. मवस्थालतणयोरपि धमत्वाद्धर्मपरिणामपि गोबलीवर्दन्यायेनैव बोध्यः । एवं पदार्थान्तरेष्वपीति । भूतान्तरेषु इन्द्रियेषु प्रकृत्यादिषु चेत्यर्थः । अपरं | विशेष परिणामेषु पूर्वक्तिं स्मारयति । ततइति । त्रयोपि परिणामाः | धर्मिस्वरूपमतिक्रान्साः धर्मिण्येवानुगता अतो धर्मधर्म्यभेदात् धर्मपरिजाममात्रमेकमेवेति सामान्यतो भति धर्मी । स एव च सर्वान परिणाम मानभिप्लबसे ध्यानाति । सूत्रस्थं परिगामशब्दार्थ प्रश्नपूर्वकं व्यावष्टे । । कोयं परिणाम इति । उत्तरम् । अवस्थितस्येति । संस्कारपि परिणामस्वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org