________________
योगवार्तिकम् ।
२०१ तत्वात्। द्रव्यस्येति । धर्मिण इत्यर्थः । धर्मशब्दश्चाश्रितमात्रचनः निवृत्त्य. त्पत्ती अतीततावर्त्तमानते। ननु धातिरिको धर्मी नानुभयते यस्य धर्मादः परिणामः स्यादिति बौद्धाशङ्कायो धाद्विविच्य धर्मी सूत्रकारेण प्रतिपा. दयिष्यते । तत् सूत्रं तत्रेति पूयित्वा पठति । तति । तत्र तेषु परिणामेषु तेषां परिणामानामिति यावत् । धर्माति सूत्रेण सहान्वयः । ____ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मो ॥ १४ ॥
अतीतवर्तमानानागतधर्मध्वनुपाती वर्तमानरूपेणानुगतो धर्मीत्यर्थः । अत्राव्यपदेश्यति विशेषणं धर्मधर्मिणाविवेकप्रदर्शनाय । तथा च वर्तमानत्वावर्तमानत्ववैधयेण धर्मिणो धर्मस्य च विवेक इति भावः । धर्मशब्दार्थ व्याचष्टे । योग्यतेति। दग्धशतरपि संग्रहाय योग्यतावच्छिवे. स्युक्तम् । वर्तमानता स्वरूपयोग्यतेत्यर्थः। तेन अतीतादिसाधारण्यलाभः । एवकारो वर्तमानादिविशेषव्यवच्छेदार्थः शक्तित्वं चानागन्तुकत्वम् । तथा चाग्नेर्दाहशक्तिबद्धमा अपि धर्मिणि यावद्रव्यभाविनः नहि शक्तिवियोगः शक्तिमतोस्ति शक्तिक्तिमतारभेदादिति भावः । धर्मशब्दार्थमुक्त्वा तस्य शान्तोदितोपपादनायानभिव्यक्तिदशायामपि सत्तां साधयति । स चेति। स च धर्मः शक्तिरूपः फलप्रसवात तदानुमिताव्यक्तावस्थक इत्यर्थः । पाकस्मिकत्वे हि मृोव घटस्तन्तुष्वेव पट इत्यादि दः फलस्य प्रसवे मस्यात अतो अनादित्वं वक्तव्यम् अनादित्वाच्चानन्तामिति भावः । एकानेकत्ववैधयेणापि धर्ममिविवेकायाह । एकस्यति । स धर्म एकस्य धर्मिणोऽनेकोपि दृष्ट इत्यर्थः । सूत्रतात्पर्यविषयं धर्माद धर्मिणो विवेकमु. पपायित्वा आदी धर्माणामेवान्योन्यं विवेक प्रतिपादयति । तत्रेति । तेष धर्मेषु मध्ये वर्तमानो धर्मी धर्मान्तरेभ्यो वर्तमानातिरिकधर्मभ्यः शान्ता. ध्यपदेश्यरूपेभ्या भियते विविच्यते वर्तमानत्वावर्तमानत्ववैधादिति शेषः । वर्तमान इत्यस्य विवरणं स्वव्यापारमनुभचिति । नन्वं किं धर्माणामन्योन्यमत्यन्तमेव भेदो न तु भेदाभेदी, नेत्याह । यदा विति। ग्रदा तु शान्ताव्यपदेश्यावस्थायां धर्मः सामान्येनाभिव्याविशेषाहित्येन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org