________________
20
योगवार्तिकम्
1
1
धर्मिणि अनुगतो विलीनो भवति तदा धर्मिस्वरूपमात्रतया अवस्थानात् धर्म्यविभागादिति यावत् । कोसौ धर्मः केन व्यापारेण भियेत प्रयोगिभिर्विविच्येत धर्मस्य तल्लक्षणस्य वानुपलम्भादतस्तदानीमविभागलक्षणाभेदेपि भवतीत्यर्थः । एतेन च भाष्यकृता ब्रह्माद्वैतमपि वेदान्तोक्तं व्याख्यातप्रायम् । प्रलये सर्ववस्तूनां परमात्मन्यविभागात् यथाकाशेऽभ्राणामिति । तथा च श्रुतिः । स यथा सर्वासामपां समुद्र एकायनमित्यादिना समष्टिजीवस्य प्रलयं प्रदर्श्यात्माद्वैतमाह । यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदिति । इदानीं शान्तोदिता व्यपदेश्यशब्दार्थ व्याचष्टे । तत्र त्रय इति । तदिदं व्याख्याय तस्य पाठक्रमात् क्रमभ्रमं परिहर्तुमाह । ते चानागतस्येति । एवं वक्ष्यमाणाव्यपदेश्येपि पाठक्रमो नादर्त्तव्य इत्याह । वर्त्तमानस्यानन्तरा अतीता इति पाठक्रमः । कथं त्यज्यतइत्याशयेन पृच्छति । किमर्थमिति । उत्तरम् । पूर्वपश्चिमताया अभावादिति । पूर्वपश्चिमद्वारादित्यर्थः । तदेव विवृणोति । यथेति । नैवमतीतस्येति । वर्त्तमानेन सहेति शेषः । तथा चानागतावस्थायाः प्रागभाव. स्थानीयायां वर्त्तमानावस्यायां हेतुत्वादतीतावस्यानन्तरं वर्त्तमानावस्या न भवतीत्यर्थः । उदिताव्यपदेश्यरूपपाठक्रमत्यागेपीदमेव बीजमिति भावः । उपसंहरति । तस्मादिति । समनन्तरः पश्चिमो लक्षणभेद इति शेषः । तत्त्वतो ऽनागत एव वर्त्तमानस्य समनन्तरः पूर्वो भवतीत्यर्थः । एतेन सत्कार्यवादपि पूर्वाभिव्यक्तो घटादिर्न पुनरुत्पद्यतइति सिद्धान्तः स्मर्त्तव्यः । ननु अनागतवर्त्तमानयोः कार्यकारणभावएव किं प्रमाणमिति चेत्, शृणु । यातीतस्य पुनर्वर्त्तमानता स्यात् तर्ह्यनिर्मतिः स्यात् । विनष्टान्तःकरणाविद्याकर्मादीनां पुनरुद्भवेन मुक्तस्यापि संसारोदयसंभवात् । किं च यदातीतोपि घटः पुनर्वर्त्तमानः स्यात्तदा स एवायं घट इति कदाचित्प्रत्यभिज्ञायेत अते । येोग्यानुपलब्ध्या प्रतीतव्य क्त्यनुन्मज्जनं निर्णीयतदूति । अत्रानागतातीतावस्ययोः प्रागभावध्वंसरूपयेोः कार्योत्पादकानुत्पादकत्ववैधर्म्ययः चनात् अव्यक्तावस्थाया एवावान्तरभेदावनागतातीतते परस्पर विलक्षये इति मन्तव्यम् । नन्वेवमतीतस्य पुनरनुत्पादादतीतसत्त्वकल्पना व्यर्थेति चेत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org