________________
योगवार्तिकम् ।
1
न लेोकानतीतान्ददृशे स्वदेहदूत्यादिवाक्यशतसिद्धया गिप्रत्यतान्यथानुपपत्त्या तत्सिद्धेः विषयतत्सत्रिकर्षयोः प्रत्यक्ष हेतुत्वात् । न चातीतार्थस्मरयमेवास्त्विति वाच्यम् । पूर्वानुभूतस्यापि योगिना दर्शनात् । ये तु योगजधर्मस्यापि सत्रिकर्षत्वमिच्छन्ति तेषामप्यसत्पदार्थे सत्रिकर्षनुपपत्तिः प्रत्यक्षं प्रति सत्रिकर्तनानात्वेनाननुगमेन हेतुताग्रहानुपपत्तिश्च । ज्ञानादेर्विषयतादिरूपेोपि संबन्धो ऽसति न संभवति सतोरेव संबन्धदर्शनादिति । प्रत्यक्षादिषु संयोगादिरेव प्रत्यासत्तिः योगजधर्मेण वाधमंतमआदिप्रतिबन्धमात्रं क्रियतइति दिक् । शान्तोदितौ व्याख्यायाव्यपदेश्यं व्याख्यातुं पृच्छति । अथाव्यप्रदेश्याः कइति । ये व्यापारं करिष्यन्ति ते व्यपदेश्या इति वक्तुं न शक्यते अकरिष्यमाणव्यापारकस्यापि केवलानागतलक्षणस्य वस्तुनः स्वीकारादित्यतः प्रकारान्तरेणाव्यपदेश्यं लक्षयति । सर्वं सर्वात्मकमिति । सर्वात्मकं सर्वशक्तिकं, तथा च सर्वत्र परिणामिन्यवस्थिताः सर्वविकारजननशक्तय एवाव्यपद्रेश्या दूत्यर्थः । ननु वर्त्तमानातीतावस्ययोरनुभवस्मरणे प्रमाणे स्तः शक्त्याख्यायां त्वनागतावस्थायां किं प्रमाणं किं वा सर्वत्र सर्वशक्तिमत्व प्रमाणमित्याकाङ्गायामाह । यत्रोक्तमिति । अभिव्यक्तिरितीत्यन्तेनान्वयः। यत्र सर्वं सर्वशक्तिमदित्यत्रार्थे पूर्वाचार्यैरिदं वक्ष्यमाणं प्रमा
1
मुक्तमित्यर्थः । तत्रादो प्रत्यक्षस्यले शक्तिमनुमापयति । जलभूम्योरिति । स्थावरेषु रसादिभिः मधुरासुरभ्यसुरभिमृदुकठिनत्वादिभिर्यदनन्तरूपत्वं तज्जलपृथिव्याः परिणामनिमित्तकमित्यन्वयव्यतिरेकाभ्यां प्रत्यक्षतो दृष्टम् तो जलभूमी स्थावरात्मिके स्थावरशक्तिमत्यैा इति भावः । शक्तिं विनापि कार्यकरणे ऽतिप्रसङ्गात् तथा जङ्गमेषु यद्वैश्वरूप्यं स्थावराणां परिणामनिमित्तकं दृष्टं मनुष्यादीनां धान्यादिस्यावर कार्याणां धान्यादिविशेषैः रूपादिविशेषदर्शनात् । तथा स्थावराणां यद्वैश्वरूप्यं तज्जङ्गमानां परिणामनिमित्तकं दृष्टम् | गोदुग्धादिभिर्धन्यचम्पकादीनां स्थावराणां विचित्ररूपं रसादिदर्शनादित्यर्थः । श्वमादिदृष्टान्तैः सर्वेषु वस्तुषु सर्वविकारजननशक्तिः सिध्यतीत्याह । इत्येवमिति । यथा जलादिस्थावराद्यात्मकम् एवमन्यदपि सर्व विकारात्मकं तच्छक्तिमत् । ननु अतीतकार्ये शक्तिमत्त्वं नास्ति भाविव
Jain Education International
३
For Personal & Private Use Only
www.jainelibrary.org