SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०४ योगवार्तिकम् । स्तनामित्यत उक्तम् । जात्यनुच्छेदेनेति । यदाप्यतीतकार्यव्यक्तय उच्छिनास्त. थापि तज्जातीयसर्व यानुच्छे दादित्यर्थः । तथा च सर्वात्मकत्वं सर्वजातीयक्तिमत्त्वमेवात्र वितिमिति भावः । एतेनान्यद्रव्यस्य परिणामव्यक्तीना. मन्यत्राभावेपि न नियमभङ्गः तज्जातीयव्यत्यन्तरजननक्तिमत्त्वसंभवा. दिति । तदेतदुक्तं विष्णुपुराणे। यथा च पादपो मूलस्कन्धशाखादिसंयुतः । आदिबीजात्मभवति बीजान्यन्यानि बै सतः ॥ संभवन्ति ततस्तेभ्यो भवन्त्यन्ये परे द्रमाः। . तेपि तल्लक्षणद्रध्यकारणानुगता मुने । एवमव्याकृतात्पवं जायन्ते महदादयः । संभवन्ति सूरास्तेभ्यस्तेभ्यश्चाखिलजन्तवः ॥ इति। यदि च सर्वत्र सर्वसजातीयवस्तुजननशक्तिनं स्वीक्रियते तदा कथमेकस्मादेव चतुर्मुखशरीरादखिलदेवदानवनस्पश्वादिसमुद्भवः कथं वागस्त्यनाठराग्नेः समुद्रशोषणं कथं वा ब्रह्मविष्णुरुद्रपार्वतीशरीरादिषु विश्वरूपदर्शनम् । योगिनां च स्वशरीरमनसारमन्ता विभूतय उपपोरन, किंबहुना उपदेयान्त ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः । येत भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । . ईतते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ इत्यादिवाक्यैः सर्वप्राणिशरीरे सर्वजातीयवस्तुसत्तावचनं शक्तिक. पतां विनाञ्जस्येनोपपोत । अर्जुनादिभिश्च शक्तिरूपेणावस्थितं भाविभीष्मपधादिकमेव कृष्णादिशरीरे कालात्मके दिव्यचक्षुषा दृष्टं योगिभिर. तोतानागतमिति । एतेन स वृदं सर्व भवति तस्मात्सर्वमभवदिति श्री: ब्रह्मविदः सर्वभावरूपा श्रुयुक्ता सिद्धिरुपपादिता। तथा जीवावाधावपि या महेश्वर्यशक्तिमत्त्वाज्जीवानामीश्वरत्वप्रतिपादकश्रुतिस्मृतय उपपत्राः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy