________________
योगवार्तिकम् ।
२०५ तथा तरते सत्या अनृतापिधानाः इति श्रुतिरपीति मन्तव्यम् । नन्वेषं सर्वत्र सर्वजातीयशक्त्यङ्गीकारे कथमेकदा न नानाविकारोयत्तिः कथं वा शिलाशकलादपि नारोत्तिरस्मदादिशरीराच्चतुर्मुखादिधत् संकल्पमात्रेण नाखिलप्राण्युत्पत्तिरित्याशङ्का परिहरति । देशकालेति । देशो भूलीकादिः कालः कलियुगादिराकार: संस्थानम् अवयवसंयोगविशेषः निमित्तम. धादिस्तैरप्रबन्धात् प्रतिबन्धात एकदा कारणेषु न विरुद्वानामात्मभूतशतीनामभित्तिर्वर्तमानलक्षण परिणाम इत्यर्थः । एतेन च प्रतिबन्धवचनेनान्या अपि उक्ताशङ्काः परिहत्ताः सहकारिविरहादित्यर्थ इयपि कश्चित् । सस्यापि प्रतिबन्धनिमित्तविलम्बे पर्यवसानं निमित्तमप्रयोजकं प्रकृतीनां घरणभेदस्तु ततः त्रिकवत्' इत्यागामिसूत्रे सर्वेषां निमित्तकारणानां स्वतन्त्रायाः प्रकृतेः परिणामेषु प्रतिबनिवर्तकतामात्रावगमादिति । अतः शिलाशकलाबाङ्करीत्पत्तिरवयवसंयोगविशेषस्याङ्कुरोत्पत्तिप्रतिबन्धकात्वात अस्मदादिशरीरावाखिलप्राण्युत्पत्तिरधर्मप्रतिबन्धात् । ब्रह्माण्डा. दिशक्तिमतश्च घटादेब्रह्माण्डादा त्पादनं विनैव प्रायशो नाशदर्शनात सा शक्तिः समुत्पन घटादिना सहैव नयति आधारनाशात् । कदाचिबहुषशरीरादीनां सर्पादिभाववत् परमेश्वरादिसंकल्पतो घटादीनामपि प्रकृत्यापरवशात् अव्यवस्थिताखिलपरिणामो भवत्येव । तथा चोक्तं लौकिकैरपि
विषमण्यमृतं क्वचिद्भवेदमृतं या विषमीश्वरेच्छया। ..
इति । एतेन तथाजानेन पुरुषार्थसमाश्या चित्तस्यान्सिकलयकाले अनागतदुःखपि शक्तिरूपं चित्तेन सहैव नात अतो हेयं दुःखमनागमिति सूत्रोक्तमनागतदुःखस्य हेयत्वमुपपत्रम् । एवं च सति विकाराणां क्वचिल्ल. तणमात्रमपि भवति अनागतातीततारूपमिति वक्तव्यम् । अन्यथानागतदुःखस्य हेयत्वानुपपतेः। परेषामनागतदुःखस्य हान हि सिद्धत्वान पुरुषार्थः । अस्मिंश्चानागतदुःखमभाविततया न घटेतेति । पदार्थान व्याख्याय समयं सूत्रार्थमाह । य एतेष्विति । अन्वयी सर्वधर्मान्वयी स्थिर इत्यर्थः । तथा चाभिव्यक्तानभिव्यक्तत्ववैधय॑ण धर्मधर्मिणविवेक इति सत्रतात्पयार्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org