________________
२०६
योगवार्तिकम् । तदेवमन्योन्यवैधादुर्मभ्योतिरिक्ततया धर्मी प्रसाधितः । इदानों तदन भ्युपगमे भाष्यफारो बाधकमप्याह । यस्य विति । धर्ममात्रमित्यनेनैव तणिकत्वमप्यायातम् । अनेकक्षणस्थायित्वे हि तणसंबन्धरूपधर्मवत्त्वमेव पदार्थमात्रस्य स्यादिति। धर्ममात्रमित्यस्य विवरणं निरन्वमिति, निर्धमिकमित्यर्थः । धर्मिनिराकरणादात्मा क्षणिकविज्ञानमित्यायातं तथा च प्रथमपादोक्तमेव दूषणमाह । तस्य भागाभाव इति । शेषं सुगमम् । नन्यस्तु धर्मी धर्मातिरिक्तः तथाप्येकस्य धर्मिण एक एव परिणामोस्तु एकस्य नानापरिणामाङ्गीकारे सहकारिभेदकल्पनागौरवादित्याशङ्कायामे. कस्य धर्मिणः परिणामभेदं साधयति । एकस्य धर्मिण आगामिसूत्रवत्यमाणपरिणामत्रसिद्धये ।
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥
एकस्य धर्मिणः परिणामनानात्वे क्रियाभेदो हेतुर्लिङ्गमित्यर्थः । आशङ्कापर्वकं सूत्रं व्याचष्टे । एकस्यति । भवतीति सिद्धान्त इति शेषः । हेतुत्वं प्रतिपादयितुमादी धर्मपरिणामविषये धर्मिणः क्रमं दर्शयति । चूर्णेति । एकैव मृत प्रथम चूर्णमृत्तिष्ठति ततः पिण्डमृद्भवति ततश्च घटमृ. दिति घटोत्पत्ती मृर्मिणः क्रमं प्रतिपादन घटलयेपि मृदः क्रममाह । कया. लमृत्कणमृदिति । चशब्देनान्यपरिणाविषयपि क्रमः समुच्चीयते सर्वत्र मृच्छब्दो मृर्मिण एकत्वप्रतिपादनार्थः । एकस्य सामान्यात्मकस्य मृद्ध मिणाऽनङ्गीकारे मृदित्यनुगतप्रत्ययो न स्यादिति भावः । ननु धर्माणामेव क्रमः पावापात्मा संभवति न तु धर्मिण इत्याशङ्कायां प्रकृतेः क्रम लतति । यो यस्येति । यस्य धर्मिणो धर्मान्तरस्य समनन्तरो यो धर्मः स एव तस्य धर्मिणः क्रम इत्यर्थः । तथा च मृदेकैव चूर्ण भूत्वा पश्चात् पिण्डो भवतीत्येकः क्रमः पश्चाच्च घट इत्यादिक्रमैर्मिण एव क्रमबहु. त्वमिति भावः । धर्माणां क्रमस्यवात्र विक्षितत्वे तु तेषां मनानात्वेप्ये. कस्य धर्मिणः परिणामबहुत्वं न सिध्यतीति भाष्यकाराशयः । परिणामत्रयेपि क्रममुदाहरति । पिण्डः प्रच्यवतइत्यादिना । नातीतस्यास्ति क्रम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org