________________
योगवार्तिकम् ।
इति । लक्षणात लक्षणान्तरप्राप्तिरूपः क्रमो नातीतस्येत्यर्थः । धर्मपरिणामवावस्थापरिणामे प्रतिक्षणक्रमो न प्रत्यक्षीक्रियतइति तमनुमानेन साधयति । घटस्याभिनवस्येति । प्रान्तेति शेषः । सा चेति । सा च पुराणता क्षणपरम्परानुपातिना प्रतिक्षयां भिचेन स्वरूपसत्ताक्रमसमूहेनैवाभिव्यज्यमाना भवन्ती चरमावस्यायां स्फुटप्रत्यक्षगोचरतामेति । अतः पुराणताभिव्यक्तिहेतुतया प्रतिक्षणमवस्य । परिणामेोनुमीयतइति शेषः । प्रतिक्षणपरिणामतो यत्सिध्यति तदाह । धर्मलक्षणाभ्यामिति । विशिष्टोऽतिशयितः । धर्मलक्षणपरिणामयेाः प्रतिक्षणमनुत्पादादवस्यापरिणामस्य च प्रतिक्षणमुत्पादादित्यर्थः । तथा चोक्तं मनुना
घोरेस्मिन्हंत संसारे नित्यं संसारपायिनि ।
इति । स्मृत्यन्तरेषु च ।
नित्यदा ङ्ग भूतानि भवन्ति न भवन्ति च । कालेनालक्ष्य वेगेन सूक्ष्मत्वात्तत्र दृश्यते ॥
इत्यादि च । पुराणे चात एव चतुर्विधः प्रलय उक्तः । नित्य नैमित्तिकश्चेति प्राकृतात्यन्तिकौ तथा ।
1
इति । नित्यः प्रतिक्षणं जायमानः । एतेन स्वप्नमायादिदृष्टान्ता अपि प्रपञ्चस्य क्षणभङ्गरत्वेनैव श्रुतिस्मृतिष्वभिप्रेता इति सूत्रतात्पर्यार्थमाह । तत इति । प्रतिलब्धस्वरूपाः प्राप्तसंभवा इतरथा तु नेत्यर्थः । ननु धर्मपि घटादेः कपालादिधर्मत्वात् कथं धर्मधर्मणेोर्भेद इति तत्राह । धर्मेपीति । तथा च यो यस्य धर्मी स तस्माद्विन इत्येव नियम इत्यर्थः । नन्वेवं धर्मधर्मलक्षणानां परिणामभेदे कथमेकस्याः प्रकृतेः सर्वे परिणामा इति श्रूयते ‘इत्येषा प्रकृतिः सर्वा व्यक्ताव्यक्तस्वरूपिणीं त्यादिस्मृतिषु तत्राह । यदा विति । यदा तु परमार्थधर्मणि प्रधानेऽभेदोपचारेण निमित्तेन सर्वोपि धर्मः स एवाभिधीयते तदायं क्रम एकत्वेन एकनिष्ठ त्वेनैव प्रतीयतदूत्यर्थः । परमार्थधर्मत्वं च साक्षात्परम्परया सर्वविकाराश्रयत्वं
Jain Education International
२०७
For Personal & Private Use Only
www.jainelibrary.org