________________
२०६
वार्तिकम् ।
तच्चप्रधान यैवास्तीत्यन्ये । अपारमार्थिकधर्मिण आपेक्षिकत्वात् । यच्चा परिणामिनां सत्यत्वं यथा वा ब्रह्ममीमांसायां जीवानामात्मत्वमपार मार्थिक तयोरपि शशशृहदेहाव्यापेक्षिकत्वादिति भावः 1 शत्र प्रधानस्यैव पारमार्थिकधर्मकत्वं वदद्भिः भाष्यकारैः परमात्मन एव निरतिशयसतो नापेक्षिका त्मनश्च पारमार्थिकसत्त्वं पारमार्थिकात्मत्वं श्रुतिस्मृतिसिद्धमनुमतं न्यायसाम्यादिति ध्येयम् । तथा ऽभेदोपचारवचनात् धर्मधर्मिणोर्भेद एव पारमार्थिकः । अविभागमात्रं त्वभेद इत्यप्युक्त. मिति । तडित्यं सूत्रगणेन प्रपञ्चः प्रकृतिपरिणाम इति सिद्धान्तितम् । तत्र चारम्भवादिभिः सहास्माकं धर्मधर्म्यभेदसत्कार्ययोरेव विरोधो न तु -प्रपञ्चस्याचेतन सूक्ष्मद्रव्योपादानकत्वेपि तैरभेदप्रत्ययनियामकस्याविभागलक्षणस्वरूपस्यानङ्गीकारात् प्रागभावध्वंसयेोरङ्गीकाराच्च । ये तु प्रप अवस्य ब्रह्मविवर्त्ततावादिनस्तैः सह च नास्माकं विरोधलेशोपि वर्त्तते । मायापरिणामस्य प्रपञ्चस्य परमात्मन्यतात्विकताया अस्माभिरपीष्टत्वात् । 'इन्द्रो मायाभिः
पुरुरूप ईयते ।
बहुरूप इवाभाति मायया बहुरूपया । रममाणा गुणेष्वन्या ममाहमितिबध्यते ॥
इत्यादिश्रुतिस्मृतिषु मायाविकारस्यैव परमात्मन्यध्यारो पावगमात् । शुक्ती बुद्धिपरिणामरजतारोपवत् बध्यतइति अंशत इत्यर्थः । यदि व मायायामपि विवर्त्तत्वं प्रपञ्चस्य कश्चिद्वदेत् तदपि परमार्थभिप्रायेणेष्यत• एवास्माभिः मायापेक्षया तत्कार्याणामनित्यत्वेन तामपेक्ष्य मिथ्यात्वात् वाचारम्भणं विकारो नामधेयं मृतिकेत्येव सत्यमित्यादिश्रोतदृष्टान्तैरेषमेव सिध्येदिति । तदेवं चितपरिणाम प्रसङ्गेन सर्ववस्तूनां भूतेन्द्रियशब्दे पलचितानां त्रिविधः परिणामः सूत्रकारेण प्रतिपादितः । तत्र सूत्रकार श्चित्तस्य निरोधव्युत्यानसंस्काररूपावेव परिणाम प्रतिपादिते । न सर्क इति न्यूनता तस्याः परिहाराय परिणामात्मकात् चित्तधर्मानशेषतः प्रकरणा समावसरे दर्शयति । चित्तस्य द्वय इति । परिदृष्टापरिदृष्टाः प्रत्यक्षाप्रत्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org