________________
योगवार्तिकम् ।
२०९
ताः। प्रत्ययात्मका इति। प्रत्ययो वृत्तिपरिणामविशेषो यः सातिणि प्रतिबिम्बाधानतमः स च ज्ञानेच्छाकृतिसुखदुःखादिमान प्रदीपशिखावद् द्रव्यरूपः परिणामविशेषः तदात्मकाः तद्रपा इत्यर्थः । वस्तुमात्रेति । परमाणुतद्रपवत् प्रतिबिम्बाधानाक्षमतया साक्षिण्याभासमाना इत्यर्थः । ते चापरिदृष्टाः । अनुमानेति । अनुमानेन साधिता वस्तुमात्रतया सत्ता येषां समामामित्यर्थः । सप्त दर्शति । निरोधेति । निरोधो वृत्तिनिरोधः संस्कार. जनकत्वेन निवृत्तियत्नवद्वावरूपोनुमीयते इति प्रागेवोक्तम् । धर्मश्चादृष्टसामान्यं भोगवैचित्र्यादनमीयते संस्कारश्च स्मृतिहेतुतयानुमीयते परिणामश्चित्तस्योपचयापचयादिवेत्त्युत्कर्षापकर्षादिरनुमीयते । एतच्च छान्दोग्ये स्पष्टम् अत्रमयं हि सोम्य मन' इत्यत्र । जीवनं प्राणनादिरूपव्यापारविशेषः सुषुप्तापि श्वासप्रश्वासाभ्यामनुमीयते चेष्टा चित्तस्य संचारः स च जायत्स्वप्नसुषुप्यादिहेतुभ्यां चित्तस्य चक्षुरादिदेशसंयोगवियोगाभ्यामनुमी. यते । यद्यपि चित्तस्य विभुत्वं तथापि बाह्मसत्त्वायपष्टम्भेनापचयापचयवच्छ्रोत्रस्यैवोपाधिकी क्रियाप्यस्तीति भावः । शक्तिः ध्यानादिसामयं तच्च तत्कार्यणानुमीयते । यद्यपि कार्यजननशक्तिः सर्वपरिणामिष्वनुमेयैव भवति तथापि चित्तस्याखिलधर्मप्रसङ्केन चित्तधिकृत्योक्ता । पादसमाप्तिपर्यन्ता. नि संयमसिदिसूत्राण्यवतारयति । अतो योगिन इति । ज्ञानसाधनानि योगाङ्गानि विस्तरेण व्याख्यातानि योगकालीनावस्याश्च चित्तस्य परिणामरूपा योगनिष्पत्त्यादयवधारणाय दर्शिताः । अतः परं बुभुत्सितानां योगिर्भािर्जज्ञासितानामानां साक्षात्काराय यमादिसाधनसंपत्रस्य योगिनः संयमविषय उपक्षिप्यते । उभयत्र संयमायथा सिद्धिर्भवति तत्सर्व विशिष्य प्रदर्श्यते पादसमाप्तिपर्यन्तमित्यर्थः । अत्र बुभुत्सितार्थप्रतिपत्तय. इति वचनात् तत्तद्विभूतिकामैरेव ते संयमाः कर्तव्याः केवलमुमुक्षुभिस्तु सत्त्वपुरुषान्यतामात्रसंयमः कर्त्तव्यः परवैराग्यायोति सूचितम् । एताश्च विभूतयः संयमसिद्धिसूचिका अपि जेयाः ।
परिणामवयसंयमादतीतानागतज्ञानम् ॥ १६ ॥
१४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org