________________
२१०
'योगवार्तिकम् । अस्य र्मिणो ऽयं धर्मपरिणामस्तस्य च अयं लक्षणपरिणामः लक्षणस्य चायं नवपुराणादयवस्थापरिणाम इत्येवमनुक्षणं यत्र कुन चिदर्थ संयमात्तत्साक्षात्कारे सति तदितरार्थानामपि धर्मादिपरिणामेषु अतीतानागत. ज्ञानं संकल्पमात्रेण प्रणिधानलेशादेव भवतीत्यर्थः । अन्यविषयकसंयमात प्रििनयतपदार्थान्तरसातात्कारश्च योगजधर्मबलावतीति शास्त्रप्रामाएयादवधार्यते धर्मविशेषात्स्वर्गविशेषवत् तपोजयसिद्धिवत् भुवनज्ञानं सूर्य संयमादिति वक्ष्यमाणसिद्धिवच्च । कश्चित्तु समानविषयत्वानुरोधात संयमविषययोरेवातीतानागतयाः साक्षात्कारो भवतीत्यर्थ इत्याह । तत्र ।
हि तत्संयमात्तज्ञानमित्येव सामान्यतः सूत्रं युज्यत संयमस्य स्ववि. षयगोचरसाक्षात्कारजनकत्वनियमात् । अपि च परिणामत्रयं साक्षात्रिय. माणं तेष्वतीतानागतज्ञानं संपादयतीति भाष्ये पोनरुक्त्यमपि स्यादिति। भाष्ये तेविति । धर्मलक्षणावस्यापरिणामेषु सर्ववस्तुसाधारणेष्वित्यर्थः । शेषं सुगमम् । संयमान्तरस्य सिद्धान्तरमाह । शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्प्रविभाग
संयमात्सर्वभूतरुतज्ञानम् ॥ १७ ॥ _गौरित्यादिः शब्दो गोरित्यादिरों गौरित्यादिः प्रत्ययः तेषां वयमाणं संकेतरूपादध्यासात्संकरो विवेकायहणं भवति । वस्तुतस्तु तेषां भेदोस्ति अतस्तेषां प्रविभागे भेदे संयमात्साक्षात्कृते सति सर्वभूतानां रुतानि ज्ञायन्ते । अयं काकादिरिममर्थमेवं प्रतीत्यानेन शब्देन कथयतीत्ये. वमित्यर्थः । यद्यपि साक्षात्कृते सतीति सूत्रे नास्ति तथापि संस्कारसा. तात्करणादित्युत्तरसूत्रेण साक्षात्कारपर्यन्तस्यैव संयमस्य सिद्धिकथनात्स. र्वत्र सूत्रे संयमस्य साक्षात्कारद्वारकत्वं व्याख्येयम् । अत एव भाष्यकारोप्यनेकसत्रे दृगदर्शनार्थसाक्षात्कारपर्यन्ततां संयमस्य व्याख्यास्यति । त्रिविधेरैव शब्दैरर्थप्रत्ययणैस्तेषां शब्दानामन्योन्यं च संकर दर्शयितुं शब्दानामेवादौ त्रैविध्यं दर्शयति भाष्यकारः । तत्र वागिति । तत्र शब्दमध्ये
* तत्रेति पा०२।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org