________________
योगवार्तिकम् ।
२११ वागिन्द्रियं वर्णेष्वेव प्रयोजनवत् शब्देषु मध्ये वागिन्द्रियजन्यः शब्दो वर्ण एव न तु शृङ्गादि शब्दो नापि वाचकं पदमित्यर्थः । उरादिषत्पा. मानः शब्दो वर्गाः।
अष्टा स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिहामूलं च दन्ताश्च नासिकौष्टी च तालु च ॥
ति स्मरणात, वागिन्द्रियस्य च शरीराढहिर्वत्तिनास्ति अतो न त्रयाह्मवत्यमाणशब्दो नापि तदनन्तरं श्रोतृदियाहो वाचकशब्दो वागिन्द्रियकार्यः श्रोतृश्रोत्रदेशे वक्तवागिन्द्रियासंबन्धेन त्रयाझशब्दोत्पादकत्वासंभवात् इति । वाििन्द्रयजन्याच्छब्दाच्छब्दान्तरमाह । श्रोत्रं चेति। निनाम वागिन्द्रियशङ्कादिवभिहतस्योदानवायाः परिणाम. भेदः येन परिणामेनोदानवायुर्वक्तदेहादुत्थाय शब्दधारां जनयन श्रोतृश्रोत्रं प्राप्नोति तस्य ध्यानः परिणामभूतं वर्णवर्णसाधारणं नादाख्यं शब्दसामा. न्यमेव श्रोत्रस्य विषयः न तु ध्वन्यपरिणामभूतं वाचकं पदमित्यर्थः। स च शब्दो वर्णजातीयत्वेन वर्ण इत्युच्यते । तृतीयं शब्दमाह । पदं पुननीदानुसंहारबुद्धिनिग्राममिति । यथाप्रतीतिसिद्धान्नादाख्यान गकारादिवणान प्रत्येकं गृहीत्वानु पवादया बुद्धिः संहति एकत्वमापादयति गौरित्येकं पदमिति तया बुया निर्याम वर्णभ्योतिरिक्तमखण्डमेकदैवोत्पदयमानं वत्यमाणं स्फोटाख्यमिति शेषः । तथा चायं तृतीयः शब्दान्तःकरणस्यैव याह्य इत्यर्थः । तस्य हि पदस्य श्रीत्रयाह्मत्वे अनुसंहारबुडेरन्तःकरणनिष्ठायाः वैयधिकरण्येन हेतुत्वं स्यात् तच्चायुक्तं, सामानाधिकरण्यस्य प्रत्या. सत्तितायां लाघवात्। न चानुसंहारबुद्धिरपि श्रोत्रादेरेवासित्वति वाच्यम् । असंभवात् । वर्णानां होक्यापादनमानुप_क्यात सा चानुपूर्वी गकारोत्तरौकारादिरूपिणी नानेकवर्णपदेषु श्रोत्रेण यहीतुं शक्यते । आशुविनाशितया वर्णानां मेलनाभावात् पूर्वपूर्ववर्णसंस्काराणां तत्स्मृतोनां चान्तःकरणनिष्ठानामन्तःकरणसहकारित्वमेवोचितम् । अतः स्मृतानां वर्णानां मनसैवानुपूर्वी ग्रहीतुं शक्यतइति भावः । ननु स्फोटाख्यः शब्दः कीदृशः किंकारणकः किंप्रमाणक इति । अत्रोच्यते । यथा बीजाङ्करादानेकावस्था
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org