________________
२१२
योगवार्तिकम् । वृतधर्मी क्रमिकाभ्यस्ताभ्योतिरिक्तः पल्लवादिरूपाशेषावस्यया व्यज्यते अय. मामवतो न वृतान्तरमेवंरूपेण स च बीजादिभ्यो भिन्नाभित्रः भेदाभेद. योरनुभवात् तथैव गकारौकारादानेकावस्यो गौरित्यादिरखण्डः स्फोटशब्दः क्रमिकाभ्यो गकारादयवस्थाभ्योतिरिक्त आनुपर्वीविशेषविशिष्टया विसर्ज. नीयादिरूपचरमावस्यया व्यज्यते इदं गोरिति पदं न तु गौर इतीत्यादि. रूपेण, तच्च स्फोटपदं गकारादिवत्तेभ्यो भिन्नाभिन्नं भेदाभेदयोरनुभवात् । स च पदाख्यः शब्दोऽर्थस्फुटीकरणात स्फोट इत्युच्यते स्फोटशब्दस्य च कारणम् एकप्रयनजन्या ध्वनिविशेषः प्रयनभेदेनेोच्चारणे व्यवधाने सत्ये. कपदव्यवहाराभावात् । गौरित्येकपमिति व्यवहारस्तु स्फोटे प्रमाणं वर्णानामनेकत्वेन तैरेकत्त्वव्यवहारस्याञ्जस्येनानुपपत्तेः । तथा प्रत्येकवणादनुत्पद्ममानस्यार्थप्रत्ययस्य हेतुत्वं च स्फोटे प्रमाणम् । यदि चानुपूर्वीविशिष्टसमूहस्यैकत्वादेकत्वव्यवहारः तेनैव रूपेणार्थप्रत्ययहेतुत्वं च स्वीनियते हि संयोगविशेषाच्छिचावयवसमहादेवैकत्वव्यवहारजलायाहरणयोरुपपत्त्या घटादावविमानोच्छेदप्रसङ्गः युक्तिसाम्यात् । नन्वेवं युक्तिसाम्याद्वाक्यमपि स्फोटरूपम् एकैकं स्यात् इति चेत् । बाधका. भावे सतीष्टत्वादिति दिक् । भाष्यकारस्तु संक्षेपतो वर्णानां पदत्वं निराकरोति । वा एकति । अनेकवर्णा एकसमयस्थित्यनहत्वात परस्पर निरनुग्रहात्मानोसंबढस्वभावा अतस्ते पदमसंस्पृश्य पदत्वमप्राप्य अत एवार्थमनुपस्याप्याविर्भूयैव क्षणात्तिराभूताश्चेतिकृत्वा प्रत्येकमपदस्व. रूपा विवेकिभिरुच्यन्तइत्यर्थः । अत्र स्वरूपग्रहणादवस्थावस्यावतारभेदेन वर्णानां पदत्वं न निराकृतम् । ननु यदि वर्णाः पदस्वरूपा न भवन्ति हि कमियन्तो वर्णाः क्रमविशेषावच्छिन्ना अस्यार्थस्य वाचका इति लोकैः संकेत्यन्ते इत्याशङ्का परिहरति । वर्णः पुनरित्यादिना संकेत्यतइति पर्यन्ते. नेत्येकवाक्येन । अयमर्थः । यद्यपि वर्णाः पदात भिन्नास्तथापि अवस्थावस्था. वतोरभेदस्यापि सत्त्वादेकैकोपि वर्णः पदात्मा पदाभित्रो भवति बीजा. पुरादिरिव वृक्षाभित्रो ऽत एव पदरूपेण सर्वपदार्थाभिधानयोग्यतासंपवः । अत्र हेतुमाह। सहकारीति । यदभावे सहकारिणि यानि वान्त.
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org