________________
योगवार्तिकम् ।
राणि तत्प्रतियोगित्वात् तत्संबन्धित्वात् अनन्तपदरूपतामिवाप भवति । इवशब्दोत्र वैश्वरूप्ययोग्यतामात्रप्रतिपादनार्थः । वैश्वरूप्यप्रकारमाह । पूर्वो। गकारः उत्तरेणोरिति वर्णद्वयेन गण इत्यादिपदात् व्यावर्त्यते उत्तरश्च विसर्जनीयः पूर्वेण गौरिति वर्णद्वयेन गैर इत्यादिपदेभ्यो व्यावर्त्य विशेषे गौरिति स्फोटपदे ऽखण्डे तादात्म्येनावस्थापितो भवति इति हेतो| रेवंरूपा बहवो वर्ण: क्रमानुरोधिन आनुपूर्वीविशेष सापेक्षः पदाभेदतोसंकेतेनार्वाच्छत्रा नियमिता सर्वाभिधानसमर्थ। अपि इयन्त एताभूत्वा वत्संख्यका एते गकारादयो गाव * मेवोपस्या पर्यान्त इत्यतस्तु तेन प्रकारेण वर्णमुखेन तत्पदमेवाविवेकतः संकेत्यतइत्यन्वयः । तत्र हेतुवाच्यस्य वाचकमिति पदमेव हि वाच्यस्य वाचक्रमुपस्थापकम् अन्यस्यान्यरूपेण संकेते हेतुरेतेषामित्यादि निर्भास इत्यन्तम् । यः पदाख्यो बुद्धिमात्रयाझः स्फोट एतेषां वर्णानाम् अर्थसंकेतेनाव च्छित्रानां तथा समाप्तो ध्वनिजन्यः क्रमप्रानुपूर्वीविशेषो येषां तादृशानाम् एकोऽभित्र इति पदस्य स्वरूपाख्यानम् । समाप्तो वाक्यार्थः । अयं भावः । यथा संयुक्तं कपालद्वयं जलाहरणहेतुरित्यविवेकतो बालकेभ्य उपदिश्यते पटादिभ्यो घटस्य व्यावर्त्तकान्तरासंभवात् । ततश्च बालकः कपालाविवेकेन घटस्यैव जलाहरहेतुत्वं गृहाति एवमेव स्फोटान्तरव्यावर्त्तनाय वर्णविवेकेनैव स्फोटे संकेतोपदेशः संकेतग्रहश्च भवतीति न वर्णेषु संकेतानुपपत्तिरिति । त्रिविधं शब्दं प्रदर्श्यदानीं तेषां मध्यात्संकेतकारणं । प्रतिपादयति । तदेकमिति । प्रतीयतइत्यनेनान्वयः । श्रयमर्थः । यद्यपि तत्पदं स्फोटाख्यम् एकमेव न तु वर्णवदनेकम् एकत्वे प्रमाणमेकबुद्धिविषयमिति तथा वक्तु· रेकेनैव प्रयत्नेन ध्वन्यादिद्वारोत्पादितं वर्णस्तु प्रयत्रभेदेनाप्युत्पदान्ते तथा अभागं निरंशं वर्णव्यूहस्तु वनवत् सांशः तथाऽक्रमम् एकदैवात्पद्यमानं न तु वर्णवत् क्रमेण श्रत एभिर्हेतुभिर्वर्णभिन्नं किंच बौद्धं बुद्धिमात्रग्राह्यं तथान्त्यवर्णस्य प्रत्ययरूपव्यापारेणाभिव्यक्तं वर्णस्तु नैवं तथापि परप्रतिपिपा दयिषया वक्तृभिरभिधीयमानैः श्रोतृभिश्च श्रूयमाणैर्वर्णैरेवंरूपैः सिद्धवत्प* गामिति तूचितम् । रा० शा० ।
+ श्रध्यासं सकारणमिति पा० २ ।
Jain Education International
For Personal & Private Use Only
२१३
www.jainelibrary.org