________________
२१४
योगवार्तिकम् । रमार्थवदन्योन्यसंप्रतिपत्त्या संवादेन प्रतीयते व्यवहीयते । न तु वर्णेभ्यो. न्येन रूपेण, तत्र हेतुरनादिवाव्यवहारवासनावशीकृतया लौकिकबुद्धोति। अनाभिधीयमानैरित्यनेन वागिन्द्रियविषयवाविवेकः पदस्योति । अयमा. णैरित्यनेन त्रिविषयकशब्दाविवेकः पदस्यति बोध्यम् । तदेव त्रिविधश. ब्दानामन्योन्याध्यासात्संकरो दर्शितः । इदानी त्रिविधशब्देनार्थप्रत्यययो. रध्यासं प्रतिपादयितुं शाब्दव्यवहारस्य संकेतयहमूलकत्वमाह । तस्येति । तस्य पदस्य विभागो विषयव्यवस्था संकेतयहादेव भवति । प्रविभागमेवाह । एतावतामिति । एतावतां वर्णानाम् एवंजातीयक एवमानुपूर्वीको ऽनुसंहारो मिलनमतस्यार्थस्य वाचक उपस्थापक इत्येवंरूपोविभाग इत्यर्थः । एकस्यार्थस्योति पाठे ऽर्थविशेषस्येत्यर्थः । संकेतशब्दार्थमाह । संकेतस्त्विति । अध्यासः संकेतकराहायर्यारोपः । आरोपिताभेद इति यावत् । तस्यैव च ज्ञानं पदार्थोपस्यापकं तत्राधुनिकनामादिकल्पनाव्या. वर्तनाय स्मृत्यात्मक इति विषयविषयिणारभेदात् पाणिन्यादिस्मृत इत्यर्थः । न च कल्पिताभेदस्यासतः कथं संकेतत्वमिति वाच्यम् । असतख्यात्यनभ्युपगमेनान्यत्र सत एवाभेदस्यान्यत्र कल्पनादिति । अध्यासस्य संकेतत्वे प्रमाणमाह । यो यं शब्द इत्यादिना भवतीत्यन्तेन । ओमित्येकाक्षरं ब्रह्मेत्यादिः शास्त्रेषु कम्बुग्रीवादिमान घट इत्यादिली के च पदपदार्थयोरभे. दारोप एव संकेतो दृश्यते इत्यर्थः । ओमित्यादिशब्दवाच्यत्वलक्षणायां प्रमाणाभावादिति । अत एव कोशेषु अमरा निर्जरा देवा इत्यादिना शब्दा. र्थयोरारोप्यमाणाभेद एव संकेतो दृश्यतति । अत एवैतेनानादाभेदारो।। पेणागमिनो मन्त्रार्थयोरभेदोपासनामुपदिन्ति । मीमांसकाश्च मन्त्रमयों देवतामाहुः । या तु अस्माच्छब्दादयमों बोद्धव्य इतीश्वरेच्छाविषयत्वं । शक्तिरिति तन्त्रान्तरे लक्षणा सा ऽप्रामाणिकी लक्षादसाधारणी च।। अपि चेश्वरमजानतोपि शब्दार्थप्रत्ययो दृश्यते तथा पदपदार्थयोरभेदेन । संकेतोपि न युज्यतेत्यादिदोषो बोध्यः । इदानीमुक्तसंकेतबुद्धिनिमित्तकः । त्रयाणां संकेत इत्याह । एवमेतइति । एवं संकेतबुद्धेः कारणात् एते त्रिविधाः शब्दा अर्थप्रत्ययौ च संकीर्णावविविक्ता च तत्र संकेतयह एव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org