________________
योगवार्तिकम् ।
२१५ शब्दार्थयोरितरेतराध्याप्तः शब्दार्थयोस्तु प्रत्ययेन सहकाकारत्वादन्योध्यासः प्रसिद्ध एवेति भावः । संकराकारमाह । गौरिति । य इति । स एव शब्दादीनां तत्त्वज्ञो नान्य इत्यर्थः । वर्णध्वनिपदानामन्योन्य संकरवदिदानी पदवाक्ययास्तदर्थयोश्च संकरेणापि शब्दार्थप्रत्ययानां संकरं दर्शयति । सर्वपदेविति । वाक्यशक्तिः पदार्थान्तरसहकारेण वाक्यभवनशक्तिः । तथा च वृक्ष इत्यादिपदानां वृक्षास्ति वृतश्चलति वृक्षश्छियतइत्यादिवाक्यैः संकरोऽविवेक इति भावः । पदेषु वाक्यशक्तिमुदाहरति । वृक्ष इत्युक्तइति । वृक्ष इत्यु के सत्याकालापरणार्थं योग्यतादिवशादस्तीति शब्दो गम्यते ऽध्याहियतइत्यर्थः । तथा च पदे वाक्यसंकर इति भावः। ननु शब्दाध्याहारो न संभवति एकस्मिन्नेवार्थ शब्दानामानन्त्यात् शब्दवि. शेषानुमापकलिङ्गादानुपस्थितरिति चेत्, न । स्वेच्छया स्वयं कल्पितेन केनाप्याकासापूरकशब्देन वक्तृतात्पर्यविषयार्थबोधसंभवात् । अर्थविशेषानुमाने तु योग्यताकाहातात्पर्यादिकमेव लिङ्गमस्ति, एतदेवाह । न सत्तामिति । योग्यताप्रदर्शनेनाकाडातात्पर्यादयोप्युपलक्षिताः केवलयो. ग्यताया अर्थान्तरसाधारण्यादिति । उदाहरणान्तरमाह। तथा नहीति । आक्षेपोनुमानम् । नन्वेवं कारवाचक्रपदानां कुत्रापि प्रयोगो न स्यादि. त्यत्राह । नियमार्थ इति । योग्यतादिभिः सर्वत्रार्थविशेषानुमान न संभवति अतः कारकाणां सामान्यतो ऽनुमितानामपि नियमार्थः कारकान्तरव्यावृत्त्यर्थश्चैत्राग्निना भर्जनमित्यादिपदैश्चैत्राग्निभर्जनानां क.
करणकर्मणामनुवाद इत्यर्थः । इदानीमध्याहारं विनापि पदवाक्ययोः संकरमभेदनिमित्तकं दर्शयति । दृष्टश्चेति । छन्दोधीत इति वाक्य. स्यार्थ श्रोत्रिय इति पदस्य तथा प्राणान् धारयतीतिवाक्यस्यार्थ जीवती तिपदस्य च वचनमित्यर्थः ।
जन्मना ब्राह्मणो ज्ञेयः संस्काराद् द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः त्रिय उच्यते ॥
इतिस्मृतेः । जीवबलप्राणधारणयोरित्यनुशासनाचेति । ननु यदि वाक्यार्थप्रतिपत्तिः पदादपि भवति तर्हि गुरुतरस्य छन्दोधीतइति वा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org