________________
२१६
योगवार्तिकम् । क्यस्य वचनं कदापि न स्यादित्याशङ्कायामाह । तत्र वाश्यति । अत एव पदवाश्ययोः सांकात संशयस्यले पदं वाक्येन विवरणीमिति। प्रसङ्गादाह । तत इति । यतो वाक्यापि पदरचना भवति अतः संदेहस्थले पदमंशभेदैः वाक्येन विवरणीयमित्यर्थः । अव्याकरणे अर्थाप्रत्ययाद्वाक्यव्यवहरणमेव व्यर्थ स्यादित्याह । अन्यथेति । भवतीति प्रयुक्त नामाख्यातयोः सारूप्या इवति घटो भवति भितां देहीत्यर्थयसंदेहे ऽनव. धारितं पदं कथं किमर्थ क्रियायां कारके वा व्याक्रियेत श्रोतुरर्थप्रत्ययासं. भवात् । एवमश्व इति प्रयुक्त श्वास * मका(ोटको वेति संशयो नामा. ख्यातसारूप्यात्। तथा ऽजापय इति प्रयुक्त छाग्याः पयः विदन शत्रन । पराभावितवान्वेत्यर्थसंशया नामाख्यातसारूप्याद् इत्यर्थः । तदेवं शब्दार्थप्रत्ययानां संकरं प्रदर्घ्यदानों प्रविभागं दर्शयति । तेषामित्यादिना । तत्रादौ शब्दभेदेप्यर्थप्रत्यययोरभेदेन शब्दार्थयार्भेदं दर्शयति । खेतत इत्यादिना प्रत्ययश्चेत्यन्तेन । क्रिया साध्यरूपोर्थी यस्य स क्रियार्थः। श्वेतत. इति शब्दः तथाकारकः सिद्धरूपोर्थी यस्य स कारकार्थः श्वेत इति शब्द एतौ शब्दो भिन्ना एतयोरर्थस्तु क्रियाकारकरूप एक एव श्वेतगुणमात्रः । एवं प्रत्ययोपि । क्रियाकारकात्मकगुणाकारत्वे प्रमाणं पृच्छति । | कस्मादिति । उत्तरम् । सायमित्यभिसंबन्धादिति । श्वेतनं या क्रिया सोयं श्वेतरूपः कारको गुणो यश्च खेततइत्यस्मात् श्वेताकारप्रत्ययः सोयं श्वेत इत्यस्मादपि श्वेताकारः प्रत्यय इत्यभेदप्रत्यभिज्ञानादित्यर्थः । कथं तहभेदेन शब्दार्थयोः संकेत इति तत्राह । एकाकार इति । एकाकार आरोपरूपः प्रत्यय एव संकेत आरोपिताभेद एव संकेतो न तु पारमार्थिका. भेदरूप इत्यर्थः । ननु शब्दार्थयोरभेदप्रत्ययेन प्रत्यभिजैव कथं न बाध्यते तत्राह । यस्त्विति । यस्तु श्वेतार्थः शब्दप्रत्यययोर्विषयत्वात् स्वाभिः
___ + द्विषच्छनिति पा० २ ।
• गमनमिति तु पाठ उचितः शिवधातोर्गत्यर्थतया घासमकार्षारित्यर्थप्रदर्शनासंभवात् । श्वसधातोर्लङि लुङिवा अश्वसः अश्वसीरित्यस्यापत्तेः। मलोक्तपाठस्तु श्रागमशास्त्रस्यानित्यतया अश्वासमिति प्रकारप्रश्लेषेण वा कथं चित् योज्य ति रा० शा०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org