________________
योगवार्तिकम् ।
२१७ शब्दादिव्यावृत्ताभिरवस्थाभिर्नवपुराणादिभिर्वि क्रियमाणत्वाच्च न शब्द. प्रत्यययोः सहगतो न कालतः सहचरो वैयधिकरण्यादित्यर्थः । एवं देशतो न सहचरो यतः शब्द आकाशे प्रत्ययो बुद्धावर्थस्तु श्वेतगुणादिः प्रासादादिविति भावः । एवमिति । एवं शब्दोपि स्वावस्थाभिः विक्रिय. माणे। नापि अर्थबुयोः सहचर एवं प्रत्ययोपीत्यर्थः । उपसंहरति । इत्य. न्यथेति । सूत्रार्थमुपसंहति। एवं तत्प्रविभागेति । एवं मनुष्विषये शब्दार्थप्रत्ययेषु प्रविभागसंयमात् साक्षात्कारपर्यन्तात्सर्वभूतानां स्तं तदर्थप्र. त्ययं च योगी जानाति योगजधर्मस्याचिन्त्यक्तित्वात् धर्माणां स्वसदृशफलदानस्यार्गिकत्वाच्चेत्यर्थः । अस्मदादीनां च शब्दार्थप्रत्ययभेदसाक्षाकारे सत्यपि तस्य साक्षात्कारस्य संयमाजन्यत्वाच सर्वभूतस्तज्ञानं भवति संयमस्यैव हीयं सिद्धिरिति । एवमुत्तरसूत्रेष्वपि यथास्थलमिदमेव समाधानम्।
संस्कारसाक्षात्करणात पूर्वजातिज्ञानम् ॥ १८ ॥
संस्कारसंयमेनेति सूत्रस्यादौ पूरणीयं संयमसिद्धिप्रकरणत्वात् । अत्र जानसंस्कारवद्रागादिवासना धर्माधर्मावपि याद्यावित्याह । द्वय. इति । अमी सूत्रोक्ताः । स्मृतिज्ञानविशेषः क्लेशोत्र रागादिरेव अविदयास्मितयोः स्मृतिमध्यप्रवेशात् । न चाविद्यात एव रागादिसंभवे तत्संस्कारे प्रमाणं नास्तीति वाच्यम् । अविनासायपि कस्य चिद्वग्धएव प्रीतिर्न दधि कस्य चिद्वैपरीमित्यत्र वासनां विना नियामकान्तराभावेन तत्सिद्दुः । तेषां दृष्टान्तेनाप्रत्यक्षत्वमनात्मधर्मत्वं चाह । तइति । अभिसंस्कृता उपचिताः परिणामादिजीवनान्तचित्तधर्मवत्र सातिभास्याः। चित्तधर्माश्चानात्मधर्मा इत्यर्थः । एतेन धादयः प्रलयेपि चित्तएव तिष्ठन्ति तेन चित्तं बीजरू पेण नित्यमित्यायातम्। संस्कारसाक्षात्कारकारणतया संयमं व्याचष्टे । तेषु संयम इति। नन्वज्ञाते संस्कार संयमो न घटते जाते च व्यर्थ इति चेत्र। शब्दा. नुमानाभ्यां सामान्यतो ज्ञाते विशेषज्ञानफलकस्य संयमस्य संभवात् । संस्का. रसाक्षात्कार जायमाने पूर्वजन्मज्ञानं भवतीत्यत्र युक्तिमप्याह । न चेत्यादिना साक्षात्करणमित्यन्तेन । देशो जन्मभूमि गादः कालो युगादिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org