________________
२१८
योगवार्तिकम्। निमित्तं मातापित्रादिः । एतेषां संस्कारविषयतया तदनुभवैर्विना तान्यविषयीकृत्य संस्काराणां साक्षात्कारो न संभवति सविषयकगुणग्रहणस्य विषयोपरागणैव ज्ञानेच्छादिस्यले दृष्टत्वात अतः संस्कारसाक्षात्कारे पूर्व जन्मनां देशकालनिमित्तादिरूपाशेषविशिष्टानामपि साक्षात्कारो भवति विषयविधयेत्यर्थः । सूत्रार्थ व्याचष्टे । तदित्यमिति । न केवलं संस्कारसाक्षात्कारात पूर्वजातिज्ञानमेव अपि तु भाविजन्मज्ञानमपीति स्वयं परयति । परत्रापीति । भाविजन्मसंस्काराणामनागतावस्यानां साक्षात्कारा. दिति विशेषः । संस्कारसाक्षात्करणात्पादिजन्मान्यशेविशेषैर्जायन्तइत्यत्र प्रमाणतया जैगीषव्यावट्ययोः संवादमाह । अत्रेदमाख्यानमिति । अत्र पूर्वजादिज्ञानविषये महासर्गषु प्राकृततर्गषु जन्मक्रमं बाल्ययौवनवाई कादिरूपं तत्परिणामक्रमं च साक्षात्कुर्वतो जैगीषव्यस्य तारकं सर्वविषयक्रमि. त्यागामिसूत्रलक्षणीयं विवेकजं ज्ञानमुदभत अथानन्तरं तमाहावट्यनामा योगी लिङ्गशरीरमात्रविहारी परीक्षार्थ तनुधरो निर्माणकायं धृत्वा पप्रच्छेत्यर्थः । भव्यत्वात् कुशलत्वादनभिभूतत्तिसत्त्वेनेत्यस्याधिकं किमुपलब्ध. मित्यनेनान्वयः । यथाश्रुते भव्यत्वाख्यजीवन्मुक्त्यनन्तरम् आकाशादिगमनासंभवादिति । संपश्यता उपभुजानेन देवतामनुष्येषु जायमानेनेत्यनेन च तत्रत्यसुखमुपभुज्जतेत्युपलक्षितं सुखदुःखयोर्मध्ये संसारे किं बहुलमिति पृष्टः स दुःखबहुत्वप्रतिपादनाय सर्वमेव दुःखमित्याह । दस्विति । अनुभूतं सुखमिति शेषः । सुखस्यापि दुःखत्वं गुणवृविरोधाच्चेत्यनेनोतम् । प्रधानशित्वं स्वेच्छया प्रतिनियोक्तृत्त्वं तत्कार्यत्वात्तद्रूपम् ऐश्वर्य सुखं तथा संतोषसुखं संतोषोत्यं स्वाभाविक सुखं प्रधानवशित्वेन हि कामसमाप्ट्या विषयेष्वनंप्रत्ययरूपं वैवृष्णयाख्यं संतोषमुत्पादन चित्तस्य स्वाभाविकं सुखमभिव्यज्यतइति । कैवल्यापेक्षया दुःखमुपपादयति । बुद्धिसत्त्वस्योत । बुद्धिसत्त्वस्यायं धर्मः संतोषाख्यालंप्रत्ययः त्रिगुणः सुखा. दिगुणत्रयवान सुखादिगुणवांश्च प्रत्ययो बुद्धिपरिणामो हेयपने दुःखपते न्यस्तो मधुविषसंपृक्तावदित्यर्थः । कैवल्यस्य च सुखत्वम् प्रात्यन्तिक. दुःखनिवृत्तिरूपतयोक्तम् । मुखं दुःखसुखात्ययति मोक्षशास्त्रे परिभाष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org