________________
योगवार्तिकम् ।
२१९
णात् । निरुपाधिप्रियत्वस्यैव सुखत्वाच्चेति यथा वात्र कैवल्ये सुखशब्दो दुःखनिवृत्त्यादिपरतया निर्णीत एवं श्रुतिस्मृत्येोरपि निर्णयः सर्वशास्त्रेष्वेकरूपव्यवहारौचित्यादिति । नन्वेवं कथं संतोषसुखस्यानुत्तमत्वं श्रुतिस्मृत्युक्तमुपपदयेत तत्राह । दुःखरूप इति । दुःखसाधनतया दुःखरूपस्तृष्णाख्यस्तन्तुर्ब न्धकरज्जु हेतुस्ततः दृष्टार्थी बन्धरूपेो यः सम्यतया उद्वेजकस्तस्यापगमात् प्रसन्नं वैषयिकदुःखा कलुषितम् अबाधमक्षयं यावद्बुद्धिस्यापि सर्वेषामेवानुकूलं प्रियमिदं संतोषोत्थं प्रधानवशित्वमूलकं सुखमुक्तं शास्त्रेष्वित्यर्थः ।
प्रत्ययस्य परचित्तज्ञानम् ॥ १८ ॥
व्याचष्टे । प्रत्ययइति । प्रत्ययस्य रागादिमत्याः स्वकीर्याचत्तवृत्तेः संयमेनाश्रयादिरूपैरशेषविशेषैः साक्षात्करणात्ततस्तस्माच्चित्तात् परस्य भित्रस्य चित्तान्तरस्यापि अशेषविशेषतो ज्ञानं संकल्पमात्रेणैव भवतीत्यर्थः । ननु यथा संस्कार साक्षात्कारे तद्विषयदेशादिकमपि साक्षात्क्रियते किमेवं चित्तान्तरसाक्षात्कारे तद्विषयेोपि नियमेन साक्षात्क्रियते न वेति जिज्ञासायामाह । न च सालम्बनमिति । तत् परचित्तज्ञानं सालम्बनं न नियमेन भवति तस्य परिचित्तालम्बनस्य संयमविषयेन स्वचित्तेनाविषयीकरणादित्यर्थः
1
·
तत्प्रतिपादकशास्त्राभावाच्चेत्यपि द्रष्टव्यम् । न च सालम्बनमित्युक्तं विवृणोति । रक्तमिति । तस्येत्यादि हेतुं विवृणोति । परचित्तस्येति । उपसंहरति । परप्रत्ययेति । तस्मात्परप्रत्ययमात्रं योगिचित्तस्यालम्बनीभूतं न तु परचित्तस्यालम्बनमपीति तुशब्दार्थः ।
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चतुःप्रकाशासंप्रयोगेन्तर्द्धानम् ॥ २० ॥
कायस्येति । स्वशरीरस्य रूपे संयमादशेषविशेषतः कारणादिभिः साक्षात्कृते सति संकल्पमात्रेण स्वकीयरूपस्य दृश्यताशक्तिं परचतु:संयोगयोग्यतां प्रतिबध्नाति ततश्च परचतुः प्रकाशैस्तत्किरणैरसंयोगेन्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org