________________
१९८
योगवार्तिकम् ।
1
रसिद्धेश्च । घटो वर्त्तमान इतिवत् घटेोतीतो भविष्यत्रिति प्रत्ययाभ्यां घटावस्थाविशेषयेोरेब सिद्धेः । अन्यथा भावाभावस्याप्यतिरिक्तत्वादिप्रसङ्ग इत्यादयश्च दोषाः स्वयमूहनीयाः । तदेवं धर्माणां लक्षणत्रयं व्यवस्याप्येदानीं तत्साङ्कर्यं परिहरति । किं चेति । चयाणामनागतादिलक्षणानामेकद्वैकस्मिस्तुनि संभवाभिव्यक्तिर्नास्ति किं तु स्वाभिव्यञ्जकं दण्डचक्रादिवस्त्वज्जनतुल्यं यस्य एवंभूतस्य लक्षणस्य क्रमेण भावाभिव्यक्तिर्भवेदिति नाभिव्यक्ता सांक स्वरूपतस्तु सांकर्यमिष्यतएवेत्यर्थः । अव्यक्तयोर्लक्षणयेोर्व्यक्तेन लक्षणेन सह नास्ति विरोध इत्यत्र पञ्चशिखवाक्यं प्रमाणयति । उक्तं चेति । धर्मदानैश्वर्यन्तान्यष्टा चित्तस्य रूपाणि वृत्तयश्च ज्ञानादयाश्रयाः शान्तघोरमूढाश्चित्तपरिणामास्तेषामतिशयो ऽभिव्यक्तिरूपोत्कटतेति । इदं च वाक्यं गुणवृस्यविरोधाच्च दुःखमेव सर्वमिति सूत्रे व्याख्यातम् । उपसंहरति । तस्मादिति । असंकरे दृष्टान्तमाह । यथेति । रागस्यैवेति । धर्मणां लक्षणत्रयसंबन्धे उदाहृतस्यैव रागस्यैवेत्यर्थः पैः । क्व चिद्विषये अन्यत्र विषयान्तरे ऽभावः सामान्याभाव दूत्यर्थः । दाष्टन्तिकमाह । तथा लक्षणस्येतीति । क्व चित्समुदाचार इत्यादिरर्थः । अयं च लक्षणपरिणामो न धर्मिणः किं त धर्म या मेवेत्येवं धर्मपरिणामा द्विशेषमाह । न धर्मीति । नन्वयं लक्षणपरिणामो लक्षणेस्ति न बा, आले अनवस्था अन्त्ये लक्षणपरिणामे परिणामलक्षणसंभवः पूर्वलक्षणातीततायां लक्षणान्तराभिव्यक्तेरेव लक्षण परिणामत्वादिति, मैवम् । बीजाङ्कश्वत्वामाविकल्येनास्या अनवस्थाया प्रदोषत्वात् । अन्यथा धर्मस्य धर्मस्तस्यापि धर्म इत्यादानवस्याया अपि दोषत्वापत्त्या धर्मधर्मिभावादिरपि न सिध्येतेति । अधिकं तु निर्वितर्कतिसूत्रे प्राक्तम् । तदेवं सर्वधर्माणां सदैव लक्षणत्रयसं बन्धास्ति अभिव्यक्तिस्तु त्रयाणां क्रमिकीति सिद्धम् । स्यादेतत् । लत थाभिव्यक्तेरपि नित्यत्वात्कथं क्रमिकत्वं तत्र क्रमिकत्वसंभवे बा किमपरा लक्षणक्रमिकत्वेन । प्रत्रेोच्यते । नित्यानित्योभयरूपत्वस्योक्ततया नित्यः स्वेपि सर्वकार्येष्वनित्यरूपेण क्रमः संभवति लक्षणानामपि क्रमश्वेष्यतश्व लक्षणाभिव्यक्तिकमस्तु लक्षखासांकर्याीय प्रकृते प्रदर्शितः । अधिकस्तु निर्वि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org