Book Title: Visheshavashyak Bhashya Part 02 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 7
________________ CLICE विशेषा० ॥२०५॥ तदेतत् परिहरति सुत्ताभिप्पाओऽयं पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो न हि संदेहादलक्खणंया ,३४७॥ सातिरेकयोजनलक्षं नयनविषयप्रमाणं ब्रुवतः सूत्रस्याऽयमभिप्राय इयं विवक्षा यदुत-स्वयं तेजोरूपप्रकाशरहितत्वात् परप्रकाशनीयं यद् वस्तु पर्वत-गादिकं तत्रैव तत् सातिरेकयोजनलक्षं नयनविषयप्रमाणतया द्रष्टव्यम् , न तु स्वयमेव तेजोयुक्तत्वेन प्रकाशे चन्द्रा-अर्कादिके प्रकाशके वस्तुनि । एतदुक्तं भवति- कश्चिद् निर्मलचक्षुर्जीवः सातिरेकयोजनलक्षे स्थितं पर्वतादिकं वीक्षते, इति प्रकाशनीये पर्वत-गादिके वस्तुनि नयनस्य तद्विषयप्रमाणमुक्तम् , प्रकाशके त्वादित्यादिकेनियमः । कुतः पुनरयं मूत्राभिप्रायो गम्यते, इत्याह- व्याख्यानतो विशेषप्रतिपत्तिः कर्तव्या, न तु संदेहादुभयपक्षोक्तिलक्षणात् सूत्रस्य सर्वज्ञप्रणीतस्याऽलक्षणता- असमअसाभिधायिता व्यवस्थापनीया- व्याख्यानात् मूत्रं विषयविभागेन धरणीयं, न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीय इत्यर्थः । उक्तं च "जं जह सुत्ते भणियं तहेब जइ तं, वियालणा नत्थि । किं कालियाणुओगो दिवो दिटिप्पहाणेहिं !" ॥१॥ इति गाथार्थः ।। ३४७॥ तदेवमप्राप्तकारिताविचारपक्रमेण नयनस्य विषयप्रमाणमुक्तम् । अथ प्रसङ्गतः शेषेन्द्रियाणामपि तदाह बारसहिंतो सोत्तं सेसाई नवहिं जोयणेहिंतो । गिण्हंति पत्तमत्थं एत्तो परओ न गिण्हंति ॥ ३४८ ॥ मेघगर्जितादिशब्दमुत्कृष्टतो द्वादशयोजनेभ्यः समायातं गृह्णाति श्रोत्रम् । उक्तशेषाणि विन्द्रियाणि घ्राण-रसन-स्पर्शनलक्षणानि गन्ध-रस-स्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्तं गृह्णन्ति, अतः परतोऽप्यायातं शब्दादिकमेतानि न गृह्णन्ति । ननु मेघगर्जितादिविषयः शब्दः प्रथमप्रावृषि, प्रथममेघवृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यायातो गृह्यमाणः समनुभूयते रस-स्पशौं तु कथम् ?, इति चेत् । उच्यते- दूरादागतानां गन्धद्रव्याणां रसोऽपि तावत् कश्चिद् भवत्येव । स च तेषां जिहासंबन्धे सति यथासंभवं कदाचित् , सूत्राभिप्रायोऽयं प्रकाशनीये तद् न तु प्रकाशे । व्याख्यानतो विशेषो नहि संदेहादलक्षणता ॥ ३४७ ॥ RON२०५॥ २ यद् यथा सूत्रे भणितं तथैव यदि तत्, विचारणा नास्ति । किं कालिका(सिद्धान्ता)ऽनुयोग आदिष्टो दृष्टिप्रधानैः ॥३॥ ३ द्वादशभ्यः श्रोनं शेषाणि नवभ्यो योजनेभ्यः । गृहन्ति प्राप्तमर्थमेतस्मात् परतो न गृहन्ति ॥ ३४८॥ हसाब8888oceases J aunainter For Personal and Private Use Only www.jannelbrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 202