________________
CLICE
विशेषा०
॥२०५॥
तदेतत् परिहरति
सुत्ताभिप्पाओऽयं पयासणिज्जे तयं न उ पयासे । वक्खाणओ विसेसो न हि संदेहादलक्खणंया ,३४७॥
सातिरेकयोजनलक्षं नयनविषयप्रमाणं ब्रुवतः सूत्रस्याऽयमभिप्राय इयं विवक्षा यदुत-स्वयं तेजोरूपप्रकाशरहितत्वात् परप्रकाशनीयं यद् वस्तु पर्वत-गादिकं तत्रैव तत् सातिरेकयोजनलक्षं नयनविषयप्रमाणतया द्रष्टव्यम् , न तु स्वयमेव तेजोयुक्तत्वेन प्रकाशे चन्द्रा-अर्कादिके प्रकाशके वस्तुनि । एतदुक्तं भवति- कश्चिद् निर्मलचक्षुर्जीवः सातिरेकयोजनलक्षे स्थितं पर्वतादिकं वीक्षते, इति प्रकाशनीये पर्वत-गादिके वस्तुनि नयनस्य तद्विषयप्रमाणमुक्तम् , प्रकाशके त्वादित्यादिकेनियमः । कुतः पुनरयं मूत्राभिप्रायो गम्यते, इत्याह- व्याख्यानतो विशेषप्रतिपत्तिः कर्तव्या, न तु संदेहादुभयपक्षोक्तिलक्षणात् सूत्रस्य सर्वज्ञप्रणीतस्याऽलक्षणता- असमअसाभिधायिता व्यवस्थापनीया- व्याख्यानात् मूत्रं विषयविभागेन धरणीयं, न तूभयपक्षोक्तिमात्रभ्रमितैस्तद्विरोध उद्भावनीय इत्यर्थः ।
उक्तं च
"जं जह सुत्ते भणियं तहेब जइ तं, वियालणा नत्थि । किं कालियाणुओगो दिवो दिटिप्पहाणेहिं !" ॥१॥ इति गाथार्थः ।। ३४७॥ तदेवमप्राप्तकारिताविचारपक्रमेण नयनस्य विषयप्रमाणमुक्तम् । अथ प्रसङ्गतः शेषेन्द्रियाणामपि तदाह
बारसहिंतो सोत्तं सेसाई नवहिं जोयणेहिंतो । गिण्हंति पत्तमत्थं एत्तो परओ न गिण्हंति ॥ ३४८ ॥ मेघगर्जितादिशब्दमुत्कृष्टतो द्वादशयोजनेभ्यः समायातं गृह्णाति श्रोत्रम् । उक्तशेषाणि विन्द्रियाणि घ्राण-रसन-स्पर्शनलक्षणानि गन्ध-रस-स्पर्शलक्षणमर्थमुत्कर्षतो नवयोजनेभ्यः प्राप्तं गृह्णन्ति, अतः परतोऽप्यायातं शब्दादिकमेतानि न गृह्णन्ति । ननु मेघगर्जितादिविषयः शब्दः प्रथमप्रावृषि, प्रथममेघवृष्टौ सत्यां मृत्तिकादिगन्धश्च दूरादप्यायातो गृह्यमाणः समनुभूयते रस-स्पशौं तु कथम् ?, इति चेत् । उच्यते- दूरादागतानां गन्धद्रव्याणां रसोऽपि तावत् कश्चिद् भवत्येव । स च तेषां जिहासंबन्धे सति यथासंभवं कदाचित् , सूत्राभिप्रायोऽयं प्रकाशनीये तद् न तु प्रकाशे । व्याख्यानतो विशेषो नहि संदेहादलक्षणता ॥ ३४७ ॥
RON२०५॥ २ यद् यथा सूत्रे भणितं तथैव यदि तत्, विचारणा नास्ति । किं कालिका(सिद्धान्ता)ऽनुयोग आदिष्टो दृष्टिप्रधानैः ॥३॥ ३ द्वादशभ्यः श्रोनं शेषाणि नवभ्यो योजनेभ्यः । गृहन्ति प्राप्तमर्थमेतस्मात् परतो न गृहन्ति ॥ ३४८॥
हसाब8888oceases
J
aunainter
For Personal and Private Use Only
www.jannelbrary.org