SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । To केनचिद् गृह्यत एव । तथाच वक्तारो भवन्ति- 'कटुकस्य, तीक्ष्णादेर्वा वस्तुनः संबन्धी अयं गन्धः' इति । यच्चेह कटुकत्वं, तीक्ष्णाविशेषा० दित्वं चोच्यते, तद् रसस्यैव धर्मः । ततश्च ज्ञायते- जिह्वासंबन्धे तेषां कटुकादिको रसोऽपि गृहीत इति । स्पर्शोऽपि शीतादिद्दूरादपि ॥२०६॥ शिशिरपद्मसरः-सरित्-समुद्रादेमध्येनाऽऽयातस्य वातादेरनुभूयत एवेति ॥ ३४८ ॥ यद्यवम् , द्वादश-नवयोजनेभ्यः परतोऽप्यायाताः शब्द-गन्धादयः किमिति न गृह्यन्ते ?, इत्याह देव्वाण मंदपरिणामयाए परओ न इंदियबलं पि । अवरमसंखेजंगुलभागाओ नयणवज्जाण ॥ ३४९ ॥ द्वादश-नवयोजनेभ्यः परतः समायातानां शब्द-गन्धादिद्रव्याणां मन्दपरिणामत्वात् । न खलु परतः समायातानां तेषां तथाविधः परिणामो भवति, येन श्रोत्र-घ्राणादिविज्ञानं जनयेयुः, श्रोत्रादीन्द्रियाणामपि च तथाविधं बलं न भवति, येन परतः समायातानि शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति । तदेवमुक्तमिन्द्रियाणामुत्कृष्टं विषयपरिमाणम् । अथ जघन्यं तद् विभणिषुराह- 'अवरमित्यादि' अपरं जघन्यं विषयप्रमाणमुच्यते । किम् ?, इत्याह- असंख्याततमादङ्गुलासंख्येयभागादागतं गन्धादिकं घाणादीनि गृह्णन्तीति । किमेतत् सर्वेषामपीन्द्रियाणां जघन्य विषयप्रमाणम् , न, इत्याह- नयनवजोनाम् ॥ ३४९ ।। नयनस्य तर्हि का वार्ता ?, इत्याह संखेज्जइभागाओ नयणस्स, मणस्स न विसयपैमाणं । पोग्गलमित्तनिबंधाभावाओ केवलस्सेव ॥३५०॥ अङ्गुलसंख्येयभागात्- अङ्गुलसंख्येयभागमवधौ कृत्वा नयनस्य जघन्यं विषयपरिमाणम् , अतिसंनिकृष्टस्याऽञ्जनशलाका-रजो-मलादेस्तेनाऽनुपलम्भादिति भावः । मनसस्तु क्षेत्रतो नास्त्येव विषयप्रमाणं, अनियमेन दूरे, आसन्ने च तत् प्रवर्तत - इत्यर्थः । कुतः ?, इत्याह- पुद्गलमात्रस्य निबन्धो नियमस्तस्याऽभावात् , मूर्ता-ऽमूर्तसमस्तवस्तुविषयत्वेन 'पुद्गलेष्वेवेदं प्रवर्तते' इत्येवंभूतस्य नियमस्याऽभावात् , केवलस्येवेत्यर्थः । इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलस्य, पुद्गलमात्रनिबन्धनियतं च मनः, ततो नाऽस्य विषयपरिमाणम् : यस्य तु विषयपरिमाणं तत्पुद्गलमात्रनिवन्धरहितमपि न भवति, यथाऽवधि-मनःपर्यायज्ञाने इति । अत्राह- नन्वनैकान्तिकोऽयं हेतुः, मति-श्रुतज्ञानाभ्यां व्यभिचारात्। तथाहि-मूतों-ऽमूर्त १ व्याणां मन्दपरिणामतया परतो नेन्द्रियबलमपि । अपरमसंख्येयाजलभागाद् नयनवर्जानाम् ॥ ३४९॥ २ संख्येयभागाद् नयनस्य, मनसो न विषयप्रमाणम् । पुद्गलमात्रनिबन्धाभावात् केवलपेव ॥ ३५० ॥ ३ घ. छ. 'परिमा' । २०६॥ Jan Education Internat For Personal and Private Use Only www.jaineltrary.ary
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy