SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ 14PTCAATIT बृह समस्तवस्तुविषयत्वेन तावद् नैते पुद्गलमात्रनिबन्धनियते, अथ च दृश्यते श्रोत्रादीन्द्रियप्रभवयोस्तयोादशयोजनादिकं क्षेत्रतो विषयविशेषा प्रमाणमिति । तदेतदसमीक्षिताभिधानमेव, यत इन्द्रियप्रभवयोरेव तयोरिदं विषयपरिमाणम् , इन्द्रियाणि च पुद्गलमात्रनिबन्धनिय- तान्येव, इति कुतो व्यभिचारः१, मनःप्रभवयोस्तु तयोरस्ति पुद्गलमात्रनिवन्धाभावः, केवलं तयोः क्षेत्रतो विषयपरिमाणमपि नास्ति, ॥२०७|| FA अतः कुतोऽनैकान्तिकता ? इत्यलं विस्तरेण ॥ इति गाथात्रयार्थः ॥ ३५॥ आह- ननु 'पुढे सुणेइ सई' इत्युक्तं भवद्भिः, तत्र च किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति, उतान्यान्येव तद्वासितानि, आहोस्विद् मिश्राणि ? इति । अत्रोच्यते- केवलानि तावद् न शृणोति, वासकस्वभावत्वाच्छब्दद्रव्याणाम् , तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, मिश्राणि तु श्रृंयेरन् , वासितानि वाऽन्यानि, येत आह भौसासमसेढीओ सदं जं सुणइ मीसयं सुणइ । वीसेढी पुण सई सुणेइ नियमा पराघाए ॥ ३५१ ॥ भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समाः प्राञ्जलाः श्रेणय आकाशमदेशपतयो | भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासमश्रेणीषु इतो गतः स्थित इत्यनान्तरं, भाषासमश्रेणीतः । इदमुक्तं भवतिभाषकस्य, अन्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता यं शब्द, पुरुषाश्च भेोदिसंबन्धिनं ध्वनि शृणोति, तं मिश्रकं शृणोतीत्यवगन्तव्यम् , भाषकादुत्सृष्टशब्दद्रव्याणि, तद्वासिताऽपान्तरालस्थद्रव्याणि च, इत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति, न तु वासकमेव, वास्यमेव वा केवलमित्यर्थः । 'विसेढी पुणेत्यादि' 'मञ्चाः क्रोशन्ति' इतिन्यायाद् विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, स विश्रोणः पुनः श्रोता शब्द नियमाद् नियमेन पराघाते वासनायां सत्यां शृणोति । इदमुक्तं भवति-यानि भाषकोत्सृष्टानि', भेर्यादिशब्दद्रव्याणि वा तैः पराघाते वासनाविशेषे सति यानि वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति, न तु भाषकायुत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनाऽसंभवात् । न च कुड्यादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं संभवति, लेष्ट्रादिवादरद्रव्याणामेव तत्संभवात् , एषां च मूक्ष्मत्वात् । न च वक्तव्यम्-द्वितीयादिसमयेषु तेषां स्वयमपि विदिक्षु गमनसंभवात् तत्स्थस्याऽपि मिश्रशब्दश्रवणसंभव इति निसर्गसमयानन्तरं समयान्तरेषु तेषां भाषापरिणामेनाऽनवस्थानात् “भाष्यमाणैव भाषा, भाषासमयानन्तरं भाषाऽभाव" इतिवचनात् । यदपि चउहिं समयेहिं लोगो भासाए निरंतरं तु होइ फुडो' इति वक्ष्यति, तत्रापि द्वितीयादि १ गाथा ३३६ । २ प. 'अत'। ३ भाषासमश्रेणीतः शब्दं यं शृणोति मिश्रकं ऋणोति । विश्नेणिः पुनः शब्द शृणोति नियमात्पराघाते ॥ ३५१ ॥ ४ घ. छ. ' निश'। ५ गाथा ३७९ । ॥२०७॥
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy