SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥२०८॥ Jain Educationa Internatio समयेषु भाषाद्रव्यैर्वासितत्वात् तेषां भाषात्वं द्रष्टव्यम् । अत्राह - ननु यदि वक्तृनिसृष्टानि भाषाद्रव्याणि प्रथमसमये दिक्ष्वेव गच्छन्ति, समयानन्तरं च नावतिष्ठन्ते तर्हि तद्वासितद्रव्याणि द्वितीयसमये विदिक्षु गच्छन्ति, ततश्च दिग्-विदिग्व्यवस्थितयोः समयभेदेन शब्दश्रवणं प्राप्नोति, अविशेषेणैव सर्वोऽपि शब्दं शृण्वन्नुपलभ्यते । नैष दोषः, समयादिकालभेदस्यातिसूक्ष्मत्वेनाऽलक्षणादिति । भवत्वेवं, तथापि " भाष्यमाणैव भाषा" इतिवचनाद् निसर्गसमयवर्तिन्येव भाषा, ततो 'विश्रेणिस्थो द्वितीयसमयेऽभाषां शृणोति' इत्यायातम् । नैतदेवम्, भाषाद्रव्यैर्वासितानामपि द्रव्याणां तदविशेषत्वाद् भाषात्वं न विरुध्यते । अत एव 'वीसेढी पुण सद्द' इत्यत्र पुनरपि यच्छदग्रहणं तत्राघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थं कृतम् इति तावद् वयमवगच्छामः, तत्त्वं बहुश्रुतादयो विदन्तीति । घ्राणादीन्यपीन्द्रियाणि गन्धादिद्रव्याणि मिश्राण्याददते । तेषां चानुश्रेणिगमननियमो नास्ति, बादरत्वात्, वातायनोपलभ्यमानरेणुवत् इति वृद्धटीकाकारः । इति नियुक्तिगाथार्थः ।। ३५१ ॥ अत्र भाष्यम् - "सेढी पएसपंती वदतो सव्वस्त छद्दिसिं ताओ । जासु विमुक्का धावइ भासो समयम्मि पढमम्मि || ३५२॥ इह श्रेणिराकाशप्रदेशपक्तिरभिधीयते, लोकमध्ये च वदतो भाषमाणस्य सर्वस्य वक्तुस्ताः पूर्वा ऽपर-दक्षिणो तरो-व-धोरूपासु षट्स्वपि दिक्षु सन्त्येव । भाषकेण विमुक्ता निसृष्टा सती भाषा यासु प्रथमसमयेऽपि लोकान्तमनुधावति ।। ३५२ ।। ततः किम् ?, इत्याह भासासमसेढिठिओ तब्भासामीसियं सुणइ सदं । तदव्वभावियाइं अण्णाई सुणइ विदिसत्थो || ३५३ ॥ 'भाषासम श्रेणीतः' इति किमुक्तं भवति १, इत्याह- भाषासमश्रेणिस्थितः । स किम् १, इत्याह- तस्य भाषकस्य, शङ्खभेर्यादेर्वा भाषा तद्भाषा तद्रूपेणोत्सृष्टः पुद्गलसमूहस्तमिश्रितं शब्दं शृणोति । विदिग्व्यवस्थितः पुनः श्रोता तद्द्द्रव्यभावितान्यपराण्येव द्रव्याणि शृणोति, न पुनस्तानि ॥ ३५३ ॥ कुतः १, इत्याह १ श्रेणिः प्रदेशपक्तिर्वदतः सर्वस्य षदिक्षु ताः । यासु विमुक्ता धावति भाषा समये प्रथमे ॥ ३५२ ॥ २घ. छ. 'सा पढमम्मि समयम्मि' । ३. भाषासम श्रेणिस्थितस्तद्भाषामिश्रितं शृणोति शब्दम् । तद्द्द्रव्यभावितान्यन्यानि शृणोति विदिकस्थः ॥ ३५३ ॥ ४ घ. छ. 'अन्नाई' । For Personal and Private Use Only बृहद्वृत्तिः । ॥२०८॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy