Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 5
________________ विशेषा ॥२०३॥ मानानां युगलधर्मिणां जिह्वेन्द्रियादिमानं याच्छ्याङ्गुलेन गृह्यते, तदा संव्यवहारे कल्पद्रुमरसादिपरिज्ञानलक्षणे विरुध्येत न घटेतेत्यर्थः । इदमुक्तं भवति-"बाहल्लओ य सव्वाई अंगुल असंखभाग, एमेव पुंहुत्तओ, नवरं अंगुलपुंहुत्त रसणं" इत्यादिवचनादङ्गुलपृथक्त्वविस्तरं बृहद्वतिः । जिहेन्द्रियं निर्णीतम् । त्रिगन्यूतादिमानानां च जन्तूनां तदनुसारितया विशालानि मुखानि,जिह्वा च । ततो याच्छ्याङ्गुलेन तेषां क्षुरपाकारतयोक्तस्य जिडेन्द्रियस्याऽङ्गुलपृथक्त्वलक्षणो विस्तरो गृह्येत, तदाऽत्यल्पतया सर्वामपि जिहां न व्याप्नुयात् । ततश्च सर्वयाऽपि तया रसवेदनलक्षणो व्यवहारो न घटेत । तस्मादात्माङ्गुलेनैव जिहादिमानं घटते । ततश्च देहात्मभूतानीन्द्रियाण्यपि सर्वाण्युच्छ्याङ्गुलेन । | यदा न मीयन्ते, तदेन्द्रियविषयपरिमाणस्य दूरे वार्ता, इति भावः ।। इति गाथार्थः ॥ ३४३ ॥ तदेवं “उस्सेहपमाणओ मिणे देह" इत्यत्र पारिशष्याद् देहशब्देन यल्लभ्यते, तद् दर्शयन्नाह तणुमाणं चिय तेणं हेविज भणियं सुए वि तं चेव । एएण देहमाणाई नारयाईणमिति ॥ ३४४ ॥ तस्मादिन्द्रियपरिमाणे, इन्द्रियविषयपरिमाणे चैकान्तेनोच्छ्याङ्गुलेनेष्यमाणे दोषस्य दर्शितत्वात् पारिशेष्यात तनुमानमेव तेनोत्सेधाङ्गुलेन भवेत् , न पुनरिन्द्रियपरिमाणं, तद्विषयपरिमाणं चेति भावः। युगलधर्मिणां रसवेदनव्यवहारस्य, चक्रवर्तिभरतनगर्यादिषु भेर्यादिशब्दश्रवणव्यवहारस्य चाभावप्रसङ्गस्य दर्शितत्वादिति । किञ्च, इन्द्रियपरिमाणं, तद्विषयपरिमाणं चोच्छ्याङ्गुलेन परः स्वमनीपिकयार्थापत्त्यैव ब्रूते, न पुनः श्रुते साक्षादेतत् काऽप्यभिहितम् । किं पुनस्तर्हि साक्षात् तत्राभिहितम् ?, इत्याह-'भणियं सुए वित चेवेत्यादि' श्रुतेऽपि तदेव देहमानमेवोच्छ्याङ्गुलेन भणितं, नाऽन्यदिति । केन पुनर्ग्रन्थेनैतच्छूतेऽभिहितम् ?, इत्याह- 'एएणेत्यादि' अर्थनिर्देश एवाऽयं, सूत्रालापकस्त्वेष द्रष्टव्यः, तद्यथा- "ईच्चेएणं उस्सेहंगुरप्पमाणेणं नेरइअ-तिरिक्खजोणिय-मणुस्स-देवाणं सरीरोगाहणाउ मिजंति"। तदस्मिन् सूत्रे शरीरावगाहनैवोच्छ्याङ्गुलमेयत्वेनोक्ता, न विन्द्रियविषयपरिमाणविरतस्तदात्माङ्गुलेनैव द्रष्टव्यम् , इति स्थितम् ।। इति गाथार्थः ।। ३४४ ॥ अथ परः सिद्धान्तस्य पूर्वापरविरोधमुद्भावयन्नाह १ बाहुल्यतश्च सर्वाण्यगुलासंख्यभागम्, एवमेव पृथक्त्वतः, नवरभङ्गुलपृथक्त्वं रसनम् । २ घ. 'पुहत्त'। ३ उत्सेधप्रमाणतो मिनुयाद् देहम् ।। ४ तनुमानमेव सेन भवेद् भणितं सूत्रेऽपि तदेव । एतेन देहमानानि नारकादीनां मीयन्ते ।। ३५५ ॥ ५ घ.छ. 'हवेज्ज'। ६ घ.छ. 'रगाई। क.ग. 'मिच्छति'। ८ इत्येतेनोत्सेधाजुलप्रमाणेन नैरयिक-तिर्यग्योनिक-मनुष्य-देवानां शरीरावगाहना मीयन्ते । २०३॥ For Personal and Private Use Only www.jaineltrary.ory

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 202