Book Title: Visheshavashyak Bhashya Part 02 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 6
________________ विशेषा० ॥२०४॥ लैक्खेहिं एकवीसाए साइरेगेहिं पुक्खरद्धम्मि । उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ॥ ३४५॥ नयणिदियस्स तम्हा विसयपमाणं जहा सुए भिहियं । आ उस्सेहपमाणंगुलाण एक्केण वि ण जुत्तं ॥३४६॥ ननु पुष्करवरद्वीपस्य मानुषोत्तरपर्वतद्विधाकृतस्यार्वाग्भागवर्तिन्यर्षे मानुषोत्तरसंनिधावुत्कृष्टे दिवसे कर्कटकसंक्रान्त्यामुदये, उपलक्षणत्वादस्तमयसमये च नरा मनुष्याः सूरमादित्यं पश्यन्ति- अवलोकयन्ति । किय९रं व्यवस्थितम् ?, इत्याह- सातिरेकेरेकविंशतिल:ोजनानाम् । एतदुक्तं भवति "सीयालीससहस्सा दो य सया जोयणाण ते बैद्धा । एगवीससट्ठिभागा कक्कडमाइम्मि पेच्छ नरा" ॥१॥ इतिवचनाद् यथाऽत्र कर्कसंक्रान्तावुत्कृष्टे दिवसे एतावति दूरे व्यवस्थित सूर्य मनुष्याः पश्यन्ति, तथा पुष्करार्धेऽपि मानुषोत्तरसमीपे प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैरेकविंशतियोजनलक्षैर्व्यवस्थितमादित्यं तत्र दिने तन्निवासिनो लोकाः समवलोकयन्ति । तत्र भ्रमितिबाहुल्यात् , सूर्याणां च शीघ्रतरगतित्वातः उक्तं च "ऍगवीसं खलु लक्खा चउँतीसं चेव तह सहस्साई । तह पंच सया भणिया सत्तत्तीसाए अइरित्ता ॥१॥ इति नयणविसयमाणं पुक्खरदीवद्धवासिमणुआणं । पुव्वेण य अवरेण य पिहं पिहं होइ नायव्वं" ॥२॥ इत्यादि । तस्माद् नयनेन्द्रियस्य सातिरेकयोजनलक्षस्वरूपं विषयपरिमाणं यथा श्रुते प्रज्ञापनादिकेऽभिहितम् , तथा तेन प्रकारेणाऽऽत्माङ्गुलो-स्सेधाकुल-प्रमाणाङ्गलानामेकेनापि गृह्यमाणं न युक्तं, प्रमाणाङ्गुलनिष्पन्नस्यापि योजनलक्षस्य तनिष्पन्नसातिरेकैकविंशतियोजनलक्षेभ्य एकविंशतितमभागवर्तित्वेन बृहदन्तरत्वात् । तस्मादेकत्र सातिरेकं लक्षम् , अन्यत्र तु सातिरेकैकविंशतिलक्षा| णि योजनानां नयनस्य विषयप्रमाणं युवतः श्रुतस्य पूर्वोपरविरोधः । इति परस्याऽऽकूतम् ॥ इति गाथाद्वयार्थः॥ ३४५ ॥ ३४६ ।।। लक्षैरेकविंशत्या सातिरेकैः पुष्करार्धे । उदये पश्यन्ति नराः सूरमुत्कृष्टे दिवसे ॥ ३४५ ॥ नयनेन्द्रियस्य तस्माद् विषयप्रमाणं यथा श्रुतेऽभिहितम् । आ उत्सेधप्रमाणानुलानामेकेमापि न युक्तम् ॥ ३४६ ॥ २ पट्चत्वारिंशत्सहस्राणि द्वेच शते योजनाना तान् बद्धान् । एकविंशतिषष्टिभागान् कर्कटादौ पश्यन्ति नराः॥१॥३५.छ. 'वहा' । ४ क.ग, 'भ्रमति' । ५ एकविंशतिः खलु लक्षाणि चतुर्विंशश्च तथा सहस्राणि । तथा पञ्च शतानि भणितानि सप्तत्रिंशताऽतिरिक्तानि ॥1॥ इति नयनविषयमानं पुष्करद्वीपार्धवासिमनुजानाम् । पूर्वेण चाऽपरेण च पृथक् पृथग् भवति ज्ञातव्यम् ॥२॥६घ, 'उवीसं' । ७ घ..'यप्रमा'। २०४॥ For Personal and Private Use CreyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 202