Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 3
________________ तेणं कालेणं तेणं समएणं अजसुहम्मअंतेवासी अजजंबूनामं अणगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोहो [वगए] विहरति,तएणं अज्जजंबूनामे अणगारे जायसढे जाव जेणेव अजसुहुमे अणगारे तेणेव उवा-12 १'सत्तुस्सेहे'त्ति सप्तहस्तोत्सेधः सप्तहस्तप्रमाण इत्यर्थः २ 'जहा गोयमसामी तहा' इति यथा गौतमो भगवत्यां वर्णितः तथाऽयमिह वर्णनीयः, कियडूरं यावत् ? इत्याह-'जाव झाणकोट्ठो'त्ति 'झाणकोट्ठोवगए' इत्येतत्पदं यावदित्यर्थः, स चायं वर्णकःसमचउरंससंठाणसंठिए वज़रिसहनारायसंघयणे'त्ति विशेषणद्वयमपीदमागमसिद्धं 'कणगपुलगनिघसपम्हगोरें' कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पद्मगर्भस्तद्वद् गौरो यः स तथा, 'उग्गतवे उग्रम्-अप्रधृष्यं तपो यस्य स तथा 'दित्ततवे' दीप्तं हुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजस्तत्तपो यस्य स तथा 'तत्ततवें' तप्तं-तापितं तपो येन स तथा, एवं हि | तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो यतोऽन्यस्यासंस्पृश्यमिव जातमिति, 'महातवें' प्रशस्ततपाः बृहत्तपा वा, 'उराले' भीमः अतिकष्टतपःकारितया पार्श्ववर्तिनामल्पसत्त्वानां भयजनकत्वादुदारो वा प्रधान इत्यर्थः 'घोरः' निघृणः | परीषहाद्यरातिविनाशे 'घोरगुणे' अन्यैर्दुरनुचरगुणः 'घोरतवस्सी' घोरैस्तपोमिस्तपस्वी 'घोरबंभचेरवासी' घोरे-अल्पसत्त्वदुरनुचरत्वेन | दारुणे ब्रह्मचर्ये वस्तुं शीलं यस्य स तथा 'उच्छूढसरीरे' उच्छूढम्-उज्झितमिव उज्झितं शरीरं येन तत्प्रतिकर्मत्यागात् 'संखित्तविउलतेउलेस्से | संक्षिप्ता शरीरान्तर्वर्तिनीत्वाद्विपुला च-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिवि| शेषप्रभवा तेजोज्वाला यस्य स तथा 'उड़जाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कटुकासनः सन्नुपदिश्यते ऊर्ध्व |" Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 128