Book Title: Vipaksutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 1
________________ ॥ अहम् ॥ श्रीमद्वादशाङ्गीविरचयितृश्रीमद्गणधारिसंकलितं । श्रीमदभयदेवाचार्यसंदृब्धविवरणयुतं । श्रीमद्-विपाकसूत्रम् । १ नत्वा श्रीवर्धमानाय, वर्द्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य, वृत्तिकेयं विधास्यते ॥१॥ अथ विपाकश्रुतमिति कः शब्दार्थः ?, उच्यते, विपाक:-पुण्यपापरूपकर्मफलं तत्प्रतिपादनपरं श्रुतं-आगमो विपाकश्रुतं, इदं च द्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गं, इह च शिष्टसमयपरिपालनार्थ मङ्गलसम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति, तत्र चाधिकृतशास्त्रस्यैव सकलकल्याणकारिसर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलखरूपत्वात् न ततो भिन्नं मङ्गलमुपदर्शनीयं, अभिधेयं च शुभाशुभकर्मणां विपाकः, स चास्य नाग्नवाभिहितः, प्रयोजनमपि श्रोतृगतमनन्तरं कर्मविपाकावगमरूपं नान्नैवोक्तमस्थ, यत्किल कर्मविपाकावेदकं श्रुतं तत् शृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपं परम्परप्रयोजनमस्य तदाप्तप्रणीततयैव प्रतीयते, न ह्याप्ता यत्कथञ्चिन्निःश्रेयसार्थ न भवति तत्प्रणयनायोत्सहन्ते आप्तत्वहानेरिति, सम्बन्धोऽप्युपायोपेयभावलक्षणो नाग्नवास्य प्रतीयते, तथाहि-इदं शास्त्रमुपायः कर्म5 विपाकावगमस्तूपेयमिति, यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह - -- Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 128