Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
[प्र०
श्रीपल्लीपालवंशीयधनपालरिचितः अनूस्थितबलं तं च सेनानीः शौर्यविस्मितः । सिन्धुरस्कन्धमारोप्यावासे प्रावेशयन्निजे ॥९८॥ तत्रास्य पट्टबन्धादि व्रणेषु विदधे स्वयम् ।। सज्जाङ्गं च तमाहूय सराजकमभोजयत् ॥९९॥ ताम्बूलवस्त्रालङ्कारदानावर्जितचेतसम् । प्रत्यर्पितरणोपात्तद्विपाश्वं तमथावदत् ॥१०॥ मय्यनुग्रहबुद्धिश्चेत् तत्प्रभुत्वं गृहाण मे । अस्मिस्तुच्छे न चेदिच्छा तदाध्यस्व निजं पदम् ।।१०१॥ जितश्चाहमनेनेति खेदं मनसि मा कृथाः । प्रभावः कोऽपि सोऽन्यस्य कोऽहं तव पराजये ॥१२॥ [य]द्वा किं तेन पश्येदं त्वद्वलम्लानिकारणम् । इत्युक्त्वाऽदर्शयत् तस्मै विस्मितायाङ्गुलीयकम् ॥१०३॥ कुत एतदिति पृष्टः स्वामिनः स्वग्गिदर्शनात् ।। प्रारभ्य श्रीप्रसादान्तं वृत्तान्तं सर्वमभ्यधात् ॥ १०॥ अथात्मनि श्लथावज्ञः सोऽप्यवादीच्चमूपते ! । त्वयैवं गतगर्वेण दूरान्मे' प्रीणितं मनः ॥१०५॥ आस्तामन्यत् तमेवेन्द्रसदसि ख्यातविक्रमम् । साहसाऽऽवर्जितश्रीकं महीशं मम दर्शय ॥१०६।। मयाऽथ कृतसेवं तं प्राहिणोद् वाहिनीपतिः । अद्यागत्य स चामुञ्चच्छिबिरं सरयूतटे ॥१०७॥ एवं विजयवेगेन प्रोक्ते तवृत्तविस्मितः । आदिशद् द्वाःस्थमास्थाने तमानेतुं महीपतिः ॥१०८॥ तेनानीतं विनीतेन राजपुत्रविराजितम् । प्रसन्नदृष्टिरष्टाङ्गप्रणामस्पृष्टकुट्टिमम् ॥१०९॥ एह्येहीति तमाहूय बाहुभ्यामङ्कमानयत् । आश्लिष्टमुक्तमासन्नसन्निविष्टमुवाच सः ॥११०॥ युग्मम् । श्रुतः श्रोत्रे यथा कामं जिगीषुस्तव पौरुषम् ।। आनन्दय तथा वत्स! वीक्षितुं रूपमीक्षणे ॥११॥
१त्म ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e84d3f260f960df6f15bd606ffbadcf45e2b4223067b73b89def2cbd3011aae1.jpg)
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146