Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
ફ્
श्री पल्ली पालवंशीयधनपालविरचितः
स्नानादि मङ्क्षु मध्याह्नविधिराधीयतां यतः । कालातिपातः क्लिश्नीयादार्या मलयसुन्दरीम् ||८३ || यथाsse देवीत्युक्त्वाऽहमेत्य तत्रैव धामनि । स्नात्वा कृतभवोन्माथमादिनाथमपूजयम् ॥ ८४ ॥ गृहीतोदारशृङ्गारः स्थित्वा प्रारूढसैख्यया । मृगाङ्कलेखया साकमक्षक्रीडापरः क्षणम् ॥ ८५ ॥ उपहूतो मुहुर्देव्या प्रेषितः स्वसखीजनैः । प्रस्थितोऽहमथापश्यं तस्याः प्रासादमप्रिमम् ॥ ८६ ॥
अर्काश्मनिर्मितं हेमकुम्भोद्भासिशिरोगृहम् । कैलाशमिव भूतेशभालनेत्राग्निभासुरम् ॥८७॥ विद्यावशंवदैव जिमृगेन्द्रर्गंरुडादिभिः । विद्याधरवधूयानै रुद्धमध्यमगोपुरम् ॥८८॥ दिदृक्षयाऽवतीर्णाभिः स्वर्गस्त्रीभिरिवाभितः ।
सलीलं सञ्चरन्तीभिः खेचरीभिरलङ्कृतम् ॥ ८९ ॥ कुलकम् । प्रविश्य तत्र सम्भ्रान्तवेत्रिणीदर्शिताध्वना । आसदं सज्जसूदादिजनं भोजनमण्डपम् ॥९०॥ तत्राभुक्तचरैर्भक्ष्य विशेषैरभ्यवाहरम् | उपस्पृश्य क्षणं स्थित्वा सङ्कथाभिरथाऽभ्यधाम् ॥ ९१ ॥ मृगाङ्कलेखे ! स्वसखीं पृच्छ यामो वयं गृहान् । प्रविश्याऽथ प्रतीहारी मन्दुरा व्याजहार माम् ॥९२॥ कुमार ! द्वारि कोsप्यस्ति शुकस्त्वदर्शनोत्सुकः । ब्रवीति च निवृत्तोऽहं लोहित्यावासिसैन्यतः ॥ ९३॥ अहं तु प्रहितं स्मृत्वा प्रावेशयमिमं शुकम् । चक्रे चञ्चुपुटक्षिप्त लेखो लेखैजैयध्वनिम् ॥९४॥ महात्मन् ! गुह्यकः सिद्धो गन्धर्वः खेचरोऽथवा ।
कृपालुः कोऽप्यवाप्तोऽसि दैवादेवंविधं वपुः ॥ ९५॥
१ सं । २ दे । ३ गु । ४ च । ५ cf. लेखो वाचिकहारकः वर्णमुखः स्वस्तिमुखः त्रिकाण्ड • II viii 28; and लेखो देवेऽपि पङ्क्तौ स्त्री । त्रिकाण्ड० lll iii. 52
६ ष ।
Jain Education International 2010_05
[ STO
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c86d846c76a4bdc02c9cf4b291b2564f996d2950732c40ced893bd48c2b8908c.jpg)
Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146